Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 43
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मानसवेगेन तज्ज्ञात्वा चैत्य बद्धो वसुदेवो वृद्धखेचरैर्मोचितस्तेन सह विवादं चकार । ततस्तौ विवदमानौ वैजयन्तीपुरे बलसिंहनृपान्तिके समाजग्मतुः । तत्र सूर्पकादयोऽप्ययुः । तथा तत्र प्राग् मानसवेग ऊचे-'सोमश्रीः प्राग् मम कल्पिता । किन्त्वनेनच्छलेन सा मयाऽदत्ता मत्स्वसा च परिणीता' । ततो वसुदेव उवाच-सोमश्रीर्मदर्थं पितृकल्पिता मयोढा, तामसौ जहे, वेगवत्याश्च वृत्तान्तं सर्वो जनो वेत्ति' । ततो जितो मानसवेगो युद्धार्थमुत्थितवान् । नीलकण्ठोऽङ्गारक-सूर्पकाद्याश्च विद्याधरा युद्धार्थमुदतिष्ठन्त । तदा वेगवतीमाताऽङ्गारवती वसुदेवाय दिव्यं धनुर्निषङ्गौ च, प्रभावती च प्रज्ञप्ति विद्यां च ददौ । ततो वसुदेवो विद्यया दिव्यास्त्रेण च दीप्ततेजा एकोऽपि सर्वान् खेचरानजैषीत् । मानसवेगं बद्ध्वा च सोमश्रियः पुरोऽक्षप्सीत् । तथाऽङ्गारवत्या वचसा तं मुमोच । तत: पत्तीभूतैर्मानसवेगाद्यैः परिवृत्तः स सोमश्रिया सह विमानेन महापुरपुरं ययौ । तत्र च सोमश्रिया सह रममाणः सुखं तस्थौ । __अन्यदा च सूर्पकेणाऽश्वीभूय हृतो वसुदेवस्तज्ज्ञात्वा तं मुष्टिना ताडयामास । तत: सूर्पकेण मुक्तः स गङ्गाजले पपात । तामुत्तीर्य च स तापसाश्रमं गत्वा तत्र कण्ठे कृतास्थिमालामेकां स्त्रियं दृष्ट्वा तापसानपृच्छत् । ततस्ते ऊचुः-'इयं जितशत्रुनृपभार्या जरासन्धनृपपुत्री नन्दिषेणा परिव्राजकेन वशीकृता । स च परिव्राड् राज्ञा हतः। असौ च कार्मणवशात् तदस्थीन्यद्याऽपि कण्ठे धत्ते । ततो वसुदेवो मन्त्रबलात् तत्कार्मणमपनीतवान् । ततो मुदितो जितशत्रुस्तस्मै निजां केतुमती कन्यां ददौ'। अष्टमं पर्व - द्वितीयः सर्गः तज्ज्ञात्वा जरासन्धद्वारपालश्च बाल एत्य नृपमब्रवीत्'नन्दिषेणाप्राणदाता प्रेष्यतां, यतोऽसावुपकारी' । ततो नृपो वसुदेवं तेन द्वारपालेन सह प्रेषयामास । स च रथारूढो वसुदेवो मगधेश्वरनगरं ययौ । तत्र चाऽऽरक्षैर्बद्धस्तेभ्यो बन्धकारणं पप्रच्छ । ततस्ते ऊचुः-'ज्ञानिना जरासन्धस्योक्तं यद् यस्ते पुत्री नन्दिषेणां सज्जीकरिष्यति तत्पुत्रस्तव हन्ता भावी, तज्ज्ञातोऽसीत्यवश्यं हन्तव्य एव त्वम्' । एवमुक्त्वा वसुदेवं वधस्थाने नीत्वा ते हन्तुमुद्यता अभूवन् । तदानीं च गन्धसमृद्धपुरेशो गन्धारपिङ्गलो विद्यां प्रभावत्या वरमपृच्छत् । सा च वसुदेवं जगौ । ततः स तमानेतुं धात्रीं भगीरथीं प्रेषितवान् । सा चैत्य तेभ्यो वसुदेवमाच्छिद्य गन्धसमृद्धकेपुरेऽनैषीत् । तत्र च वसुदेवः प्रभावतीं परिणीय तया समं यथासुखं रममाणोऽस्थात् । तथाऽपरा अपि विद्याधरकन्याः परिणीय ततो गत्वा सुकोशलां परिणीय तस्या गृहे निर्विघ्नं विषयानुपभुञ्जन्नस्थात् ॥ २॥ इति अष्टमे पर्वणि वसुदेवस्य श्यामादिसुकोशलान्तकन्यापरिणयवर्णनात्मको द्वितीयः सर्गः ॥२॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159