Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः पौषकृष्णचतुर्दश्यां भद्रायां मूलनक्षत्रे रात्रौ पुत्रं प्रासूत । सा च दोहदेन भीता जातकं पुरैव रचितायां कांस्यपेटिकायां चिक्षेप । ततो नृपस्वनामाङ्कितमुद्राद्वययुक्तां सपत्रिकां रत्नपूर्णां तां यमुनाजले दास्या अक्षेपयत् । तथा राज्ञे जात एव सूनुर्मृत इति शशंस । ३२ सा च कांस्यपेटिका नदीप्रवाहेण शौर्यपुरद्वारे नीता । प्रातश्च शौचार्थमागतो रसवणिक् सुभद्रस्तां मञ्जूषां दृष्ट्वा विस्मितः पेटादिना सह तं बालं निजगृहं नीत्वा मुदित इन्दोः स्वपत्न्याः पुत्रत्वेनाऽर्पितवान् । तौ दम्पती च तस्य कंस इत्यभिधां चक्रे । तथा मधुक्षीरादिभिस्तं वर्धयामासतुः । स च वर्धमानः कलही बालां - स्ताडयामास । तेन च तयोर्वणिजोः प्रत्यहं लोकोपालम्भा अभवन् । ततो दशवर्ष: स ताभ्यां वसुदेवकुमारस्य सेवकत्वेनाऽर्पितः । स कंसस्तस्य कुमारस्याऽतिप्रियो बभूव । वसुदेवेन सह सोऽपि सकलाः कलाः जग्राह । सममेव च यौवनं प्राप । इतश्च शुक्तिमतीपुर्या नवमस्य वसुनन्दनस्य पुरा नंष्ट्वा नागपुरं गतस्य बृहद्रथो नाम पुत्रो बभूव । स च राजगृहं जगाम । तत्सन्ततौ च जयद्रथस्य जरासन्धो नाम पुत्रो बभूव । स च प्रतिविष्णुः प्रचण्डाज्ञो दूतेन समुद्रविजयमाज्ञापयत्- 'वैताढ्यसमीपे सिंहपुरे सिंहरथं नृपं बद्ध्वा समानय । तथाकर्तुश्च जीवयशसं स्वां सुतां किञ्चित्समृद्धं पुरं चैकं दास्यामि' । ततो वसुदेवः समुद्रविजयं नत्वा जरासन्धनिदेशं कर्त्तुमाज्ञामयाचत । समुद्रविजयश्च तं बालं मत्त्वा निषिषेध । किन्तु तस्याऽत्यधिकमाग्रहं दृष्ट्वा सैन्यैः सह तं कथञ्चिद् विससर्ज । ततो वसुदेवो द्रुततरं सिंहपुरं गत्वा सिंहरथेन युयुधे । सिंहरथश्च वसुदेवस्य सैन्यं बभञ्ज । ततो वसुदेवः कंस अष्टमं पर्व द्वितीयः सर्गः सारथिस्तेन योद्धुं स्वयं दधाव। द्वयोश्च दारुणं युद्धमजनि । कंसश्च सारथिकर्मविहाय परिघेण सिंहरथरथं द्रागेवाऽभाङ्क्षीत् । तदा सिंहरथः कंसं हन्तुं क्रुधाऽसि चकर्ष । वसुदेवेन च मुष्टिदेश एव सोऽसिबाणेन खण्डितः । तदानीं च पराक्रमी कंसश्छागं वृक इवोत्पत्त्य सिंहरथं बद्ध्वा वसुदेवरथेऽक्षैप्सीत् । ततो भग्ने सैन्ये जयी वसुदेवः सिंहरथमादाय स्वपुरं ययौ । ततः समुद्रविजयो वसुदेवमेकान्ते जगौ क्रोष्टकी नाम ज्ञानी ममाऽऽचख्यौ यद् जरासन्धस्य कन्या जीवयशाः कुलक्षणा पति- पितृवंशक्षयकारी । जरासन्धश्च सिंहरथानयनपारितोषिके तां तुभ्यं दास्यति, तत्कोऽपि तत्त्यागोपायो विचारय' । ततो वसुदेव ऊचे - कंसो रणे सिंहरथं बद्ध्वाऽनैषीत् । तस्मै सा जीवयशा देया' । ततो नृपः पुनरूचे- 'अयं वणिक्पुत्र इति सा तं न स्वीकरिष्यति । किन्त्वसौ पराक्रमात् क्षत्रिय इव लक्ष्यते' । ततो नृपेण धर्मपूर्वकं पृष्टो रसवणिक् कंसस्य श्रृण्वत एवाऽऽदितस्तद्वृत्तान्तमाख्यत् । तथोग्रसेन-धारिण्योर्मुद्रिके पत्रिकां च सुभद्रो राज्ञे दत्तवान् । नृपश्च पत्रिकां वाचयामास- उग्रसेनपल्या धारिण्या दुर्दोहदाद् भीतया स्वपति रक्षितुमेष प्राणप्रियः पुत्रस्त्यक्तः तथा नाम - मुद्रासहित: सर्वालङ्कारभूषितः कांस्यमञ्जूषायां कृत्वा यमुनायां प्रवाहितः । एवं वाचयित्वा नृप उवाच - 'अयं विक्रम्युग्रसेनपुत्रो यादवः । कथमन्यथाऽस्येदृक् पराक्रमः स्यात् ?' ततो नृपः कंसेन सह गत्वा जरासन्धाय सिंहरथमार्पयत् । कंसपराक्रममुपवर्णितवांश्च । जरासन्धः कंसाय स्वसुतां जीवयशसं तथा कंसेन पितृकोपहेतो

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159