Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सामानिकौ देवावजायेताम् । धनभ्रातरौ च धनदत्त-धनदेवौ व्रतं पालयित्वा विपद्य सौधर्मे देवौ जातौ । इतश्चाऽत्र भरते वैताढ्योत्तर श्रेण्यां सूरतेजःपुरे सूरनामा विद्याधरेश्वरो बभूव । तस्य मेघस्य विद्युदिव विद्युन्मती नाम भार्याऽतिप्रेमपात्रं बभूव । तस्याः कुक्षौ च धनजीवः सौधर्माच्च्युत्वा समवातरत् । पूर्णे समये च विद्युन्मती शुभलक्षणं सुतं सुषुवे । पिता च तस्य जातस्य समहोत्सवं चित्रगतिरिति नाम चक्रे । क्रमेण वर्धमानश्चित्रगतिराचार्यात् सकला: कलाः प्राप्य यौवनं प्रपन्नवान् । इतश्चाऽत्रैव वैताढ्ये दक्षिणश्रेण्यां शिवमन्दिरनगरेऽनङ्गसिंहो नाम नृपोऽभूत् । तस्य शशिमुखीनामपत्न्या उदरे धनवतीजीव: सौधर्माच्च्युत्वाऽवातरत् । सा च शशिमुखी समये रूपवतीं पुत्रीं सुषुवे । सा च बहूनां पुत्राणां पश्चाज्जातेति मातुरत्यन्तप्रियाऽभूत् । पिता च तस्याः शुभेऽहनि समहोत्सवं रलवतीति नाम चक्रे । सा च क्रमेण वर्धमाना स्त्रीजनोचिताः सकला: कला अचिरेणैव गृहीत्वा देहभूषणं यौवनं प्रपन्ना । एकदा चाऽस्या: को योग्यो वर इति पित्रा पृष्टो नैमित्तिक उवाच-'यस्तवाऽसिरत्नमाच्छेत्ता, तथा यस्य सिद्धायतनं वन्दमानस्योपरि देवैः पृष्पवृष्टिः कृता स्यात् स नर श्रेष्ठस्तवेमां पुत्री रत्नवतीं परिणेष्यति' । यो ममाऽपि खड्गरत्नमाच्छेत्ता सोऽद्भुतनिधिर्मम जामाता स्यादिति प्रीतो नृपो नैमित्तिकं विससर्ज। इतश्चाऽत्रैव भरते चक्रपुरनगरे गुणवान् सुग्रीवो नाम नृपो बभूव । तस्य यशस्वत्यां पन्यां सुमित्राख्यो ज्येष्ठः पुत्रो भद्रायां अष्टमं पर्व - प्रथमः सर्गः पत्न्यां च पद्मनामा कनिष्ठः सुतश्च बभूवतुः । तयोः सुमित्रो गम्भीरो विनयी नीतिसम्पन्नः कृतज्ञोऽर्हद्धर्मपरायणः, पद्मश्च ततो विपरीतोऽभवत् । भद्रा च 'अस्मिन् सुमित्रे जीवति मम पुत्रस्य राज्यं न भवेदि'ति द्वेषात् सुमित्रस्योग्रं विषं ददौ । विषावेगाच्चमूच्छितः सुमित्रो भुवि पपात । ततश्च ससम्भ्रमं तत्र सुग्रीवो मन्त्रिभिः सह समागत्य मन्त्रतन्त्रैरनेकश उपचारं चकार । किन्तु तस्य विषप्रभावशान्तिर्न जाता । पुरे च 'भद्रा सुमित्रस्य विषं ददा'विति प्रवादो जातः । भद्रा चाऽऽशङ्किता पलाय्य क्वाऽप्यगात् । नृपश्च पुत्रार्थे जिनार्चादिकं शान्तिकं चकार तथा सुतगुणान् स्मारं स्मारमत्यन्तं विललाप । अत्राऽवसरे नभसि क्रीडया विचरंश्चित्रगतिविमानेन तत्राऽऽगतः शोकातुरं पुरं दृष्ट्वा तद्विषवृत्तान्तं च ज्ञात्वा विद्याभिमन्त्रितैर्जलैस्तमभ्यषिञ्चत् । तेन च सुमित्रः किमेतदिति पृच्छन् विस्मितनेत्रः सद्य एवोत्तस्थौ । ततो नृप उवाच-'तव मात्रा भद्रया ते विषं ददे । अकारणोपकारिणा चाऽनेन स्वस्थः कृतोऽसि' । ततः कृताञ्जलि: सुमित्रश्चित्रगतिमुवाच-'तव परोपकारबुद्ध्यैव कुलं ज्ञातम् । तथाऽपि स्वकुलमाख्यातुमर्हसि' । ततश्चित्रगतेः पारिपार्श्वका सचिवपुत्रस्तद्वंशादिकं सर्वं शशंस । ततो हष्टः सुमित्र उवाच-'विषप्रदया विषेण चाऽद्य ममोपकृतमेव, कथमन्यथा तव सङ्गम: स्यात् ? त्वं मम जीवनप्रद एव नाऽसि, किन्तु प्रत्याख्यानादिहीनदुर्मृत्योरपि रक्षकोऽसि, तवाऽहं किं प्रत्युपकरोमि' । एवमुक्त्वा विरतं सुमित्रं मित्रतामापन्नं निजपुरप्रयाणाय चित्रगतिरापप्रच्छे । तत: सुमित्र उवाच-'अत्र समीपदेशे एव सुयशानामा केवली विहरन्नास्ते । तमिहाऽऽगतं

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159