Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 658
________________ पञ्जिकासमेतः । कथचिदसदात्मानो यदि वाऽत्मघटादयः । कथश्चिनोपलभ्यत्वात्खरसम्बन्धिशृङ्गवत् ॥ १३७५ ॥ ४०७ कथञ्चन सदात्मानः शशशृङ्गादयोऽपि च । कथञ्चिदुपलभ्यत्वाद्यथैवात्मघटादयः ॥ १३७६ ॥ त्वदीयो वापि तत्रास्ति वेश्मनीत्यवगम्यते । भावत्कपितृशब्दस्य श्रवणादिह सद्मनि ॥ १३७७ ॥ अन्यथाऽनुपपत्स्यैव शब्ददीपादिवस्तुषु । अपक्षधर्मभावेऽपि दृष्टा ज्ञापकताऽपि च ॥ १३७८ ॥ तेनैकलक्षणो हेतुः प्राधान्याद्गमकोऽस्तु नः । पक्षधर्मादिभिस्त्वन्यैः किं व्यर्थेः परिकल्पितैः ॥ १३७९ ॥ I नाचन्द्रः शशी चन्द्रः शशीति वा पक्षः, लोके सम्प्रदायप्रसिद्धचन्द्रव्यपदेशाचन्द्रत्वेनापदिष्टत्वादिति वा हेतु:, वैधर्म्येण लोष्टादि । अयं चापरो द्विलक्षण उच्यते — पतत्कीटककृतेयं मम वेदना पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वात् । पततः कीटकस्य पतङ्गस्य स्पर्शेन प्रतिलब्ध उदय उत्पादो ययेत्यर्थः । सामान्यविवक्षा चात्रान्यपदार्थे द्रष्टव्या, तेन टान भवति । विद्यमानरूपग्रहणसाधकतमशक्तिकं चक्षुः, अनुपहतत्वे सति रूपदिदृक्षायां प्रेक्षा पूर्वकारिणा करणत्वेन व्यापार्यमाणत्वात्, रूपपरिछेदनदर्शनाद्वा । वैधर्म्येण श्रोत्रादि । तस्येति । रूपस्य । अत्र त्रिष्वपि हेतुष्वसत्याषु साधर्म्यदृष्टान्ताभावाद्दिरूपत्वम् । आत्मघटादयः कथंचिदसदात्मानः कथंचिदनुपलभ्यमानत्वात्खरविषाणवत् । अत्र वैधर्म्यदृष्टान्तो न विद्यते । घटादि: सर्वो भावात्मको राशिः कथंचिदसदात्मकत्वेन प्रतिज्ञातः, अभावश्च साधर्म्यदृष्टान्तत्वेनोपन्यस्तः । न च भावाभावव्यतिरिक्तं तृतीयमस्ति यत्र साध्यव्यवच्छेदपूर्वकः साधनव्यवच्छेदो निर्दिश्येत । खरविषाणादयो वा कथश्वित्सदात्मकाः कथविदुप'लभ्यमानत्वादात्मघटादिवत् । अत्रापि पूर्वकयैव युक्त्या वैधर्म्यदृष्टान्ताभावो योजनीयः । प्रतिपद्यमानत्वदीयपितृकमिदं गृहं श्रूयमाणत्वदीयपितृकस्वरत्वात् । अत्र किल साधर्म्यदृष्टान्तो नास्तीति द्विरूपता । तथा शब्ददीपादीनां धूमादिलिङ्गवज्ज्ञापकत्वं दृष्टमसत्यपि पक्षधर्मत्वे, न हि शब्ददीपादयो घटाद्यर्थगता धर्माः, अथच प्रतीयते शब्दादेः सकाशादर्थ इति विपक्षाभावोऽन्यथानुपपन्नत्वं चेति द्विरूपो हेतुः 1 " "

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832