Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 769
________________ तस्वसदः। विजानातीति विज्ञानमिति गीयते, असति च विझये कि विज्ञानं सावित्याहबोधानुगतिमात्रेणेति । बोधानुगतिमात्रेण विज्ञानमिति चोच्यते । सा चास्याजडरूपत्वं प्राकाश्यात्परिकल्पितम् ॥ १८४९ ॥ बोधानुगमोऽपि विना बोधेन (न) सम्भवतीति चेदाह-सा चेति । सा-बोधानुगतिः। अस्य-विज्ञानस्य । किमुच्यते ?, यत्तदजडरूपत्वम्, प्रकाश्यवस्वन्तराभावात्प्रकाशान्तरविरहाच नभोवल्लोकवत्प्रकाशरूपत्वादभिधीयते बोधरूपतेति ॥ १८४९॥ कर्मातीतं च कथं फलदमित्यत्राह-विपाकहेतुरित्यादि । विपाकहेतुः फलदो नातीतोऽभ्युपगम्यते । सद्वासितातु विज्ञानप्रबन्धात्फलमिष्यते ॥ १८५०॥ वासितं परम्परया फलोत्पादनसमर्थमुत्पादितम् ॥ १८५० ।। यद्येवं कथमुक्तं भगवता, 'अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतमित्याह'तामेवेति । तामेव वासनां चेतासन्ततावधिकृत्य तत्। अस्ति कर्मेति निर्दिष्टं भक्त्या मूलाविनाशवत् ॥१८५१॥ 'भक्त्येति । उपचारेण । यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य स(म)भावे विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते तद्वत्कर्मापि ॥ १८५१ ॥ उपचारेण देशनायाः किं प्रयोजनमित्याह-उच्छेददृष्टीति । उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम् । अन्यथा शून्यतासूत्रे देशना नीयते कथम् ।। १८५२॥ नात्यतीतं कर्मेत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा तस्याप्यभावं प्रतिपधेरनित्युच्छेददृष्टिमापनाः स्युर्विनेया इत्यस्ति कर्मेत्युक्तं भगवता। अन्यथा हि यद्यतीतं स्वरूपेण स्यात्तदा परमार्थशून्यता सूत्रे देशना कथं नीयते । चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुद्ध्यमानं न कचित्सभिचयं गच्छतीति हि चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छतीति । वर्तमानेऽध्वन्यभूत्वा भवतीति चेन्न । अध्वनो भावानर्थान्तरत्वात्त एवाध्यानस्तथाऽवस्थितिवचनात् । अथ स्वात्म

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832