Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 785
________________ वत्स्वनः । उपादानतदादेयधोऽयं यद्व्यवस्थितः। अन्वयव्यतिरेकाभ्यां निश्चितच खसन्ततौ ॥ १८९५ ॥ खोपादानबलोद्भूते सहकारित्वकल्पने। सन्तानान्तरचित्तस्य न काचिद्व्याहतिर्भवेत् ॥ १८९६ ॥ तत्-सन्तानान्तरचित्तं मात्रादिसंबन्धि, उपादानकारणं वा स्यात्सहकारिकारणं वा, न तावदुपादानकारणं, पुत्रज्ञानसन्तानेऽपि मातापितृश्रुतादिसंस्कारादिविशेषानुत्प(?)चिप्रसङ्गात् , यथा पित्रोरेव स्वोत्तरबुद्धिषु । यस्मादुत्तरेषु क्षणेषु यत्पूर्वक्षणसंस्कारानुवर्तनम् । एवमुपादानोपादेयधर्मो व्यवस्थितः । वसन्तानेऽन्वयव्यतिरेकाभ्यां निश्चितत्वात् । अथ मतम्-यथैकस्मात्प्रदीपाहीपान्तरोत्पत्तौ न पूर्वदीपसंस्कारेण स्थौल्यादिलक्षणेन विशिष्टस्योत्तरस्य दीपस्य संभवः, किं तर्हि ?, निःसंस्कारस्य प्रदीपमात्रस्योत्पत्तिः, अन्यतस्तु तस्य दीपान्तरस्य खेत्व(न्ध ?)नादेः सकाशाद्विशेषः, तद्वत्सु तद्बुद्धेरिति । तन्न । यस्मात्प्रदीपादिसंस्कारः स्वाश्रयेऽपि तावत्सन्तानमवबभाति । अस्थिरत्वात्तस्य । तथाहीन्धनाय(प?)चये तस्यैव दीपस्य त(अस)त्त्वं दृश्यते । नत्वेवमस्थिरः श्रुतादिसंस्कारः, तस्य चिरकालमवस्थानात् । अतो न दीपादिवनिःसंस्कारस्य बुद्धिमात्रस्य सम्भवो युक्तः । किंच-प्रदीपादौ बहुतराल्पपरमाणुसंचयोत्पादानुकल्पिती विशेषाविशेषौ, न त्वेकस्य वस्तुलक्षणस्य तत्र विशेषोऽस्त्यविशेषो वा । इह त्वेकस्मिन्नेव वस्तुलक्षणे श्रुताविसंस्कारेण विशेषो मातृबुद्धिवतिनि, अविशेषस्तु सुतबुद्धिवर्जिनीति किं केन शास्यम् । किंच-उपादानकारणबेऽयं प्रसङ्ग उच्यते, न च दीपान्तरं दीपान्तरस्योपादानकारणं, मिन्नसन्तानत्वादिति यत्किंचिदेतत् । अपिच येषां संखेदजातीनां मातैव नास्ति तेषां कथमन्यविज्ञानजा बुद्धिरित्यलं प्रसङ्गेन । अथ सहकारिकारणमिति पक्षस्तदा सिद्धसाध्यता ॥१८९३।। ॥ १८९४ ॥ १८९५ ॥ १८९६ ॥ तस्मादित्यनादित्वसाधने प्रमाणयति । तस्मात्तत्रादिविज्ञानं खोपादानबलोद्भवम् ।। विज्ञानवादिहेतुभ्य इदानीन्तनचित्तवत् ॥ १८९७ ॥ प्रयोगः-यविज्ञानवेदनासंज्ञासंस्कारस्कन्धचतुष्टयखभावं वस्तु तत्वोपादानबजोत विज्ञानादित्वात) बया नौवनाचवल्यासु तदेव स्कन्धचतुष्टयम् , विज्ञानादि

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832