Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 816
________________ पत्रिकासमेतः। सि-मानस्य, असिद्धेः । प्र(अ)सिद्धव्यक्तिकं व्यक्तमिति (न) युज्यते । सथाहि-तावदर्थस्य स्वानुभवकालेऽपि सिद्धिस्तदमिव्यक्तिखभावस्वानुभवल तदानीमसिद्धत्वात्कदा तस्य सिद्धिर्भविष्यतीति वक्तव्यम् । तज्ज्ञानज्ञानजाती-अर्थज्ञानज्ञानोत्पत्तिकाले, सिद्धिर्भविष्यतीति चेत् । एतदतिसुभाषितम् । यो हि नाम खानुभवकाले न सिद्धः स कथमस्वा(न्या?)नुभवकाले सेत्स्यतीति ॥ २०२३ ॥ ॥ २०२४॥ . सिद्ध्यतु नाम यद्यनवस्था न भवेत्सा तु दुर्वारेति दर्शयन्नाह-तस्याप्यनुभव इत्यादि । तस्याप्यनुभवे(ऽसिद्धे?)प्रथमस्याप्यसिद्धता। तत्रान्यसंविदुत्पत्तावनवस्था प्रसज्यते ॥ २०२५ ॥ तस्येति । द्वितीयस्यार्थज्ञानज्ञानस्य । प्रथमस्येति । अर्थानुभवस्य । (अ)सिद्धतेति । नास्य सिद्धिरस्तीत्यसिद्धस्तद्भावोऽसिद्धता ॥ २०२५ ॥ किंच यदि ज्ञानान्तरेणानुभवोऽङ्गीक्रियते तदा तत्रापि ज्ञानान्तरे स्मृतिरुत्पद्यत एव ज्ञानज्ञानं ममोत्पन्नमिति, तस्याप्यपरेणानुभवो वक्तव्यः, नाननुभूते स्मृतियुक्ता, ततश्चेमा ज्ञानमालाः कोऽनन्यकर्मा जनयतीति वक्तव्यम् । न तावदर्थस्तस्य मूलकानविषयत्वात् । नापीन्द्रियालोको तयोश्चक्षुर्ज्ञान एवोपयोगात् । नापि निर्निमित्ता, सदा सत्त्वादिप्रसङ्गात् । सैव पूर्वधीरुत्तरोत्तरां बुद्धिं जनयतीति चेदाह-गोचरा. म्तरेत्यादि। गोचरान्तरसंचारस्तथा न स्यात्स चेक्ष्यते । गोचरान्तरसंचारे यदन्त्यं तत्खतोऽन्यतः ॥ २०२६ ॥ न सिद्धियेत्तस्य चा)सिद्धौ सर्वेषामप्यसिद्धता। अतश्चान्ध्यमशेषस्य जगतः संप्रसज्यते ॥ २०२७ ॥ अन्त्यस्य तु खतःसिद्धावन्येषामपि सा ध्रुवम् । ज्ञानस्वादन्यथा नैषां ज्ञानत्वं स्याङ्कटादिवत् ॥ २०२८ ॥ एवं हि विषयान्सरसंचारो न प्राप्नोति, तथाहि-पूर्वपूर्वा बुद्धिरुत्तरोत्तरस्य शानस्य विषयभावेनावस्थिता प्रत्यासन्ना चोपादानकारणतया वां वाशीमन्तरणिकां त्यक्त्वा. कथं व बहिरामर्भ गृहीयात् । नचाप्यर्थः सन्निहितोऽपि तां प्रतिरोढुं

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832