Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 820
________________ पखिकासमेतः । .५६९ (नां) नानात्वम् । तेनायमर्थो भवति - यदुपलम्भ एव यस्योपलम्भो नान्योऽपीति । नच भगवज्ज्ञानोपलम्भ एवान्यसन्तानगतचित्तोपलम्भो नाप्यन्यसन्तानगतचित्तोपलम्भ एव भगवज्ज्ञानोपलम्भ:, अपि त्वन्योऽपि, पृथक्त्वस्य स्वस्यापि चित्तस्य संवेदनात् । अतएव न रूपालोकैर्व्यभिचारः । केवलस्याप्यालोकदर्शनात् । रूपस्याप्यालोकरहितस्य कैश्चित्प्राणिविशेषैरुपलम्भात्तस्माद्विपक्षे भावासम्भवान्नानैकान्तिको हेतुः ॥। २०३० ।। २०३१ ॥ त्तस्य, स्यादेतत् - यद्यपि विपक्षे सत्त्वं न निश्चितं संदिग्धं तु, ततश्चानैकान्तो हेतुः संदिग्धविपक्षव्यावृत्तिकत्वात् । तथाहि - विषयविषयिभावेन नियतत्वादन्यथापि सहो - पलम्भनियमः सम्भवत्येव, यतो ज्ञानस्य ग्राहक एव स्वभावो विषयग्रहणधर्मकत्वाविषयस्यापि तद्ब्राह्य एव स्वभावः, त्योश्चैकसामध्यधीनत्वान्नित्यं सह भाविता । नच सहोत्पादाविशेषेऽपि चक्षुरादीनां विषयत्वप्रसङ्गस्तथाविधस्वभावाभावात् । तथाहि —सामग्र्या नीलादिविषयाध्यवसायरूपमेव ज्ञानं जन्यते न चक्षुराद्यध्यवसायरूपम् । नीलादिरपि तु तदध्यवसीयमानरूपो जनितो न चक्षुरादिरिति । आह च—“नान्योऽस्ति ग्राहको ज्ञानाच्चाक्षुषैर्विषयैर्विना । अतश्च सहसंवित्तिर्नाभेदानीलतद्धियोः ॥” “पूर्विकैव तु सामग्री प्रज्ञानं विषयक्षणम् । सा (आ ?) लोकरूपवत्कुर्याद्येन स्यात्सहवेदनम् ॥” इति । अत्राह-न ज्ञानात्मेत्यादि । न ज्ञानात्मा परात्मेति नीलधीवेदने कथम् । नीलाकारस्य संवित्तिस्तयोनों चेदभिन्नता । २०३२ ॥ 1 नहि व्यतिरिक्तस्य प्रतिबन्धमन्तरेण सहोपलम्भनियमो युक्तोऽतिप्रसङ्गात् । नचात्र व्यतिरिक्तस्य संवेदने कश्चित्प्रतिबन्धोऽस्ति । तथाहि - प्रतिबन्धोभवन्भवेत्तादात्म्यं तदुत्पत्तिर्वा । न तावत्तादात्म्यमत्र परेणेष्टम्, तस्यैव साध्यत्वात् । नापि तदुत्पत्तेः सहवेदनम्, सह भूतयोः कार्यकारणभावाभावात् । चक्षुरादीनामप्युपलब्धिप्रसङ्गाच्च । नापि पूर्वसामग्रीवशाद्यौगपद्यमात्रेण विषयविषयिभावः, चित्तचैत्यानां चक्षुरादीनां च परस्परं विषयविषयित्वप्रसङ्गात् । नापि सामग्र्या प्रतिनियतविषयविषयिरूपेण जनितत्वान्नातिप्रसङ्ग इति युक्तं वक्तुम्, विषयविषयित्वस्यैव विचार्य - माणत्वेनासिद्धत्वात् । सिद्धे हि प्रतिबन्धे विषयविषयिभावो युक्तो यावता स एव विषयविषयिभावव्यवस्थायां प्रतिबन्धो विचार्यते । नच तादात्म्यतदुत्पत्तिव्यतिरे ७२

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832