Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 830
________________ पविकासमेतः। मिचक्रमः । अन्वयव्यतिरेकाभ्यामिति । प्रायसाहकस्मरणयोर्भावाभावाभ्याम् । तथाहि-प्राहकस्मरणभावेऽपि प्रापस्मृतेरभावः ॥२०७१ ॥२०७२॥२०७३ ।। अप्रसिद्धोपलम्भस्येत्यादिना प्रतिविधत्ते । अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिद्ध्यति । तन्न ग्राह्यस्य संवित्तिाहकानुभवाहते ॥ २०७४ ॥ स बहिर्देशसम्बन्धः प्रत्यक्षमुपलभ्यत इत्यस्यानैकान्तिकतामाह-अस्वस्थेत्यादि । अखस्थलोचनैदृष्टं तथा पीतायवेक्ष्यते । निष्कृष्टं ग्राहकांशाच संवेद्यं न तथा परम् ॥ २०७५ ॥ निष्कृष्टमित्यत्र छेदः । तथेति । यथा सत्यामिमतं पीतादि बहिर्देशसम्बद्धं विस्पटमुपलभ्यते, तथा कामलाद्युपहतनयनोपलब्धमपि समीक्ष्येत । यदि नाम समीक्ष्यते ततः किमित्याह-प्राहकांशाच संवेद्यं नेति छेदः । ग्राहकांशादिति । निष्कृष्टमियध्याहार्यम् । संवेद्यं नेति भवतीति शेषः । तेनायमर्थो भवति–तच पीतादि तैमिरिकाद्युपलब्धं प्राहकांशानिष्कृष्टं पृथक्संवेद्यं न भवति, अथ च बहिर्देशसम्बद्धमुपलभ्यते, तस्मादनैकान्तिकमेतत् । तथा परमिति । सत्यामिमतमपि पीतादि । अनेन विच्छिन्नस्पष्टप्रतिभासमात्रेण द्वयोरपि साम्यं योजयति ॥ २०७५ ।। न स्मरामि मया कोऽपीत्यत्राह-अलक्षितेत्यादि । अलक्षितविशेषा च बाथरूपे च सा स्मृतिः। सर्वतो भिन्नरूपे तु न साऽभ्यासाद्यसम्भवात् ॥ २०७६ ॥ अनेन प्राहकस्मरणे प्राह्यास्मरणस्यासिद्धिमाह । स्यादेवत्-यदि प्राझे सा स्मृतिः किमित्यलक्षितविशेषा भवति । यावता यथैव तद्बाह्यं सर्वतः सजातीयविजातीयाद्विनं तथैव तत्स्मरेत् । एवं हि तद्विषयता तस्याः स्यात्, अन्यथा कथमगृहती तनेदं तद्विषया भवेत् , अतिप्रसङ्गावित्याह-सर्वत इत्यादि । एतदुक्तं भवति । न तावद्विकल्पस्य यथाऽवस्थितवस्तुग्रहणसामर्थ्य, तस्यावस्तुबिषयत्वात् । केवलं तथाभूतपदार्थानुभवबलायत्रैवार्थित्वादयो निश्चयहेतवः सन्ति तत्र तदाकाराभ्यवसायी स्माः प्रत्ययो निर्विषय एव । परमार्थतः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेनः प्रवृत्तेधान्त एव सर्वो जायते । तस्य त्वध्यवसायवशेन विषयव्यवस्था, न परमार्थतः । नच पाह्याध्यवसायः स्मृतेरपि विद्यते, केवलं तथाविधाभ्यासपाटवादेरप्रत्यासति

Loading...

Page Navigation
1 ... 828 829 830 831 832