Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 832
________________ पत्रिकासमेतः। विवादास्पदमारूढं विज्ञानवादतो मनः / अद्वयं वेचकर्तृत्ववियोगात्मतिबिम्बवत् // 2079 // विवादास्पदविशेषणेनैतदाह-वस्थनेत्रादिविज्ञानमत्र विशेषः साध्यधर्मी, न सर्वी, सामान्यं तु विज्ञानत्वादिति हेतुः, तेन न प्रतिज्ञार्थंकदेशता हेतोरिति / वेद्यकर्तृत्ववियोगादित्यद्वयत्वविशेषणम् / वेद्यकर्तृत्वद्वयविरहेणाद्वयमिष्टम्, न तु सर्वथाऽभावादित्यर्थः / प्रतिबिम्बवदिति / विषयिणि विषयोपचारात्प्रतिबिम्बज्ञानं प्रतिविम्बशब्देनोक्तम् / यद्वा-सप्तम्यन्ताद्वतिः कर्त्तव्यः तेन ज्ञानमेव सामर्थ्यादाधेयतया लभ्यते / न चासिद्धो हेतुर्भेदान्तरप्रतिक्षेपेण खभावस्यैव तथा निर्देशान ज्ञातृत्वस्य / नापि विरुद्धः सपक्षे भावात् // 2079 // ननु चेत्यादिनाऽपरो दृष्टान्तस्य साध्यविकलतामुद्भावयति / ननु च प्रतिविम्बेऽपि ज्ञानं सालम्बनं मतम् / चक्रश्मिनिवृत्ती हि खमुखादेस्तयेक्षणात् // 2080 // . .. यस्मामायना रश्मयो दर्पणादितलप्रतिहता निवर्तमानाः खमुखादिना सम्बध्यन्ते ततले तथा मुखादिप्रतीतिहेतवो भवन्ति / अतः स्वमुखादेरेव तथा दर्पणाद्यन्तर्गतादिरूपेणेक्षणं भवति / ततश्च न प्रतिबिम्बज्ञानं प्राह्यप्राहकद्वयरहितं सिद्धम् // 2080 // - नाभिमुख्येनेत्यादिना प्रतिविधत्ते / नाभिमुख्येन तदृष्टेः खमुखादेस्तथेक्षणम् / प्रमाणदेशभेदादिदृष्टवान्यपदार्थवत् // 2041 // .. '. न स्वमुखादेस्तथेक्षणमामिमुख्येन तस्य स्वसुखादेर्दर्शनात् / वदेशप्रमाणवर्णादिमेदेन दृष्टेश्च न स्वमुखादेस्तथेक्षणमिति सम्बन्धः। अन्यपदार्यवदिति / शब्दादिपदार्थवत् / एतदुक्तं भवति-(यदि) मुखादिग्राहक तज्ज्ञानं स्यात्तदा यथैव तन्मु. खादि व्यवस्थितं तथैव गृहीयात् , नान्याकारस्य ज्ञानस्यान्यासं युक्तमतिप्रस. मात् / यावता दक्षिणाभिमुखस्थितो दर्पणतलं निभालयनुत्तराभिमुखं स्वमुखं प. श्यति / तथाऽल्पीयसि दर्पणतले महतोऽपि स्वमुखस्याल्पप्रतिबिम्बकमुपलभ्यते तथा दर्पणतलसम्बद्धं दूराध:प्रविष्टमिवेक्ष्यते / नच तावदहलं तथाऽऽदर्शतलं. नापि में खादि तत्सम्बद्धम् / तथा विमलसलिले सरसि तटान्तस्थितशाखिशिखरिणा प्रतिवि. म्यान्यधोगतशाखादिशिखरशेखराण्युपलभ्यन्ते, नच ते तथास्थिताः / तस्मात्प्रतिबिम्बज्ञानं स्वमुखादिप्राहकं तद्विलक्षणप्रतिभासित्वात् शब्दशानवत् / / 2081 // .

Loading...

Page Navigation
1 ... 830 831 832