Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 826
________________ पखिकासमेतः। बाह्यार्थेयादिना दूषणमाह । वावार्थप्रापणं यद्वा तत्सामयं यदीष्यते । संवादिखमसिद्धं तदहिरपलापिनः ॥ २०५३ ॥ अर्थक्रियावसाये चेत्प्रत्यये हेतुतेष्यते। संवादिवं तथाऽप्येतन्निरालम्बेऽपि शक्यते ॥ २०५४ ॥ सत्र यदि बालार्थप्रापणं तत्प्रमाणशक्तिर्वा संवादित्वं हेतुविशेषणमभिप्रेतं तदा बहिरपलापिनो विज्ञप्तिमात्रतावादिनस्तदसिद्धमित्यन्यतरासिद्धो हेतुः । अथामिमतार्थक्रियावमासिप्रत्ययहेतुत्वं संवादित्वमिष्टं तदा विपर्यये बाधकप्रमाणानुपदर्शनासंदिग्धविपक्षव्यावृत्तिकतेत्यनैकान्तिको हेतुः । निरालम्बेऽपि ज्ञाने तथाविधसंवादित्वाविरोधात् ॥ २०५३ ॥ २०५४ ॥ अविरोधमेव समर्थयितुमाह-यथा बाह्यजलादीनामिति । यथा वाजलादीनां सामर्थ्य नियमो मतः । ज्ञानेष्वपि तथैवैते संविदोऽव्यतिरेकता(नः) ॥ २०५५ ॥ अनुमाप्रतिभासेन स्पष्ट साधारणोऽप्ययम् । स्पष्टं हुताशनादीनां रूपं तेन समं नहि ॥ २०५६ ॥ किं चानुमानज्ञानप्रतिभासस्य सत्यपि निरालम्बत्वे संवादित्वमस्तीति निश्चितविपक्षसद्भावात्प्रमेयत्वादिवत्स्पष्टा साधारणानैकान्तिकता हेतोः । स्यादेतत्-असिद्धा निरालम्बनताऽनुमानविकल्पस्येत्याह-स्पष्ट हुताशनादीनामित्यादि । प्रयोगःयद्यदाकारशून्यं न तत्तद्विषयम् , यथा रूपज्ञानं न शब्दविषयेम् , बाह्याकारशून्यं चानुमानमानमिति व्यापकविरुद्धोपलब्धिः । नचासिद्धो हेतुः । तथाहि-स्पष्टं हुता. शनादीनां यत्तद्रूपं न तत्तेन-अनुमानज्ञानाकारेण समम्-तुल्यम्, तस्यास्पष्टत्वात् । अन्यथा हि यथा प्रतिष्ठितेन तार्णपार्णादिभेदतो रूपेण प्रत्यक्षे ज्ञाने प्रत्यवभासते, तथैवानुमानज्ञानेऽपि भासेत, यावता प्रतिष्ठितं रूपमुत्सृज्य गमकानुगसामान्यरूपेगैव भासते परोक्षो बाह्याविरनुमाने । न चैकस्याकारद्वयं सामान्यविशेषात्मकं परस्परविरुद्धं युक्तमिति प्राक्प्रतिपादितम् । नापि विरुद्धो हेतुः, सपक्षे भावात् । नाप्यनैकान्तिकोऽतिप्रसङ्गात् ॥ २०५५ ॥ २०५६ ॥ . प्रमेयत्वादिहेतुभ्य इत्यादिनोद्योतकरस्य प्रमाणान्याशते ।

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832