Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library
________________
तत्वसहः। कल्पपादपवत्सर्वसङ्कल्पपवनैर्मुनिः । अकम्पोऽपि करोत्येव लोकानामर्थसम्पदम् ॥ २०४९॥ तेनादर्शनमायाहुः सर्वे सर्वविदं जिनम् ।
अनाभोगेन निःशेषसर्ववित्कार्यसम्भवात् ॥ २०५० ॥ __ अदर्शन मिति । नास्य दर्शनमुपलम्भोऽस्तीत्यदर्शनः । पूर्वप्रणिधानबलादनामोगेन कल्पतम(रु ?)वद्यथाभव्यमशेषजगदर्थसंपादनात्सर्वज्ञमाहुर्नोपलम्भबलात् । खभावान्तरस्य सर्वथाऽप्युपलम्भायोगात् ॥ २०४९ ॥ २०५० ॥
एवं बाह्यार्थनिषेधकं प्रमाणमभिधाय तत्साधकं परप्रणीतमुपाकर्तुमाह-घिय इत्यादि।
धियोऽसितादिरूपत्वे सा तस्यानुभवः कथम् ।
धियः सितादिरूपले पायोऽर्थः किंप्रमाणकः ॥ २०५१ ॥ तथाहि-प्रत्यक्षतो बाह्यार्थसिद्धिः स्यादनुमानतो वा, अन्यस्य प्रमाणस्य सतोऽत्रैवान्तर्भावात् । तत्र न तावत्प्रत्यक्षतः, तथाहि-प्रत्यक्षामिमतेन ज्ञानेन निराकारेण वार्थस्य प्रहणं स्यात्साकारेण वा । न तावनिराकारेण, प्रत्यासचिनिबन्धनाभावात् । धियोऽसितादिरूपत्वे सति सा धीस्तस्यार्थस्यानुभवः कथं भवेत् , नैव भवेदिति प्रागुक्तम् । अथ साकारेण तथा, नीलाद्याकारस्यैवैकस्य ज्ञानगतस्योपलम्भादायोऽर्थः परोक्ष एव भवेन प्रत्यक्षः । नहि द्वे नीले कदाचित्संवेद्येते, एकं ज्ञानप्रतिबिम्बकमपरं तदर्पकमित्येवं तावन्न प्रत्यक्षतः सिद्धिः ॥ २०५१ ॥
अनुमानतस्तर्हि सिद्धिरस्त्विति चेत् । अत्र भदन्तशुभगुप्तः प्रमाणयति । यो ज्ञानाकारः स संवादित्वे सति, तथाविधापरपदार्थजनितस्तद्यथा प्राहक आकारो ज्ञानाकारश्चायमविप्लुतेन्द्रियस्य नीलादिप्रतिभासविशेषः संवादीति स्वभावहेतुः । तदिदमाशङ्कते-नीलादीत्यादि ।
नीलादिप्रतिभासस्य संवादित्वेन साध्यते।
ज्ञानाकारतया तुल्यजातीयाजन्म बोधवत् ॥ २०५२ ॥ संवादित्वेनेति । इत्थंभूतलक्षणे तृतीया । संवादित्वेनोपलक्षिता या ज्ञानाकारता तया हेतुभूतया ज्ञानाकारस्य तुल्पजातीयाजन्म साध्यते । बोधवत्-माहकाकारवदित्यर्थः ।। २०५२।।
Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832