Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 827
________________ वस्वसङ्कहा। प्रमेयत्वादिहेतुभ्यः सन्तानान्तरचित्तवित् । आन्तरानुभवादिन्नं देशविच्छेदभासि चेत् ॥ २०५७ ॥ सह्याह-यदेतदेशविच्छेदप्रतिभासि नीलादिकं तदान्तरानुभवाद्विनं प्रमेयत्वात् , अनित्यत्वात् , कार्यत्वात् , प्रत्ययत्वात् , हेतुमत्त्वात् , यथा सन्तानान्तरचित्तमिति" ॥ २०५७ ॥ अत्रापि व्यभिचारित्वं न रूपेणास्य चेतसः। तथापी(हि?)तविचन्द्रायैरवस्थनयनेक्षितैः ॥२०५८ ॥ अनापीति । सर्वेष्वेव हेतुषु । व्यभिचारित्वम्-अनैकान्तिकत्वम् । आन्तरानुभवेऽपि प्रमेयत्वादीनां सद्भावात् , यथा-तैमिरिकादिज्ञाने प्रतिभासिमितिचन्द्रायैरनैकान्तिकता । प्रमेयत्वं तु द्विचन्द्रादीनां द्विचन्द्रादीति विकल्पकज्ञानविषयतया द्रष्टव्यम् । नच यस्मिन्विज्ञाने ते भासन्ते तदपेक्षया तेषामर्थाधि(ग)मो(ड)क्षाभावात् । यदाह-केशादिना योऽन(नायना?).धि(ग)मो(s)क्षत इति ॥ २०५८ ॥ अन्यथेत्यादिना कुमारिलस्य मतेन व्यभिचारविषयस्यासिद्धिमाशङ्कते। अन्यथा बाह्य एवार्थः संवेद्यश्चेदिहोच्यते । आकारो भासमानोऽसौ न तदर्थात्मको ननु ॥ २०५९ ॥ स चैवम्भासमानत्वाद्विज्ञानेन प्रवेद्यते । बायस्य तु निजं रूपं नैवं तत्रावभासते ॥ २०६०॥ अभासमानो वेद्यश्च कथं नामोपपद्यते। तं च वेत्त्यन्यथा चेति परस्परविरोधि च ॥ २०६१ ॥ अतएव खवेद्यत्वं दुःसाध्यं नैव चेतसाम् । आत्मभूतावभासस्य तथा संवित्तिदर्शनात् ॥ २०६२॥ तस्माद्बुद्धिरियं प्रान्ता कल्पयन्त्यर्थमेव न । कल्पयत्यन्यथासन्तं तेनात्मानमवश्यति (वेक्षते १)२०६३॥ - - सह्याह-यह पीतद्विचन्द्रादिज्ञाने व्यभिचारविषयत्वेनोपन्यस्तो बाप एव शङ्कादिरर्थः पीतादिरूपेणालम्ब्यते । ततो व्यभिचारो न सिद्ध इति । अत्राह-आकार इत्यादि । अयमत्र सङ्केपार्थः-य एवाकारो यस्मिन् ज्ञाने प्रत्यवभासते स एव तेन संवेद्यत इति युक्तम् , अन्यथा हि सर्व ज्ञानं सर्वविषयं स्यात् । प्रतिभासमानत्वेन

Loading...

Page Navigation
1 ... 825 826 827 828 829 830 831 832