Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 824
________________ पखिकासमेतः। ५७३ अथवाग्भूतमाकारं वेत्तीति व्यपदिश्यते । विभ्रमान हि तत्त्वेन वेत्ति निर्विषयं हि तत् ॥ २०४५ ॥ स्वयाऽपि यदि विज्ञानमेवंभूतस्य वेदकम् । विभ्रमादुच्यते व्यासं व्यक्तं निर्विषयं तव ॥ २०४६ ॥ तदिति । अभूताकाराविषयत्वेनोक्तं ज्ञानं । तथाहि-परमार्थतो नाभूताकारोऽस्ति वेद्यः, तस्य हि विधिना वेद्यत्वोपगमे भूतत्वप्रसङ्गात् ॥ २०४५ ॥ २०४६ ॥ पुनः स एवाह-"साकारं तनिराकारं तुल्यकालमतुल्यजम् । इति बौद्धेऽपि विज्ञाने किं न चिन्ता प्रवर्त्तते ॥” इति । यथा साकारादिविज्ञानेन नार्थस्य प्रहणं युक्तमिति चिन्ता क्रियते तथा भगवतोऽपि ज्ञानेनार्थस्य ग्रहणं प्रति किं न क्रियत इत्यत्राह-साकारमित्यादि । साकारं तन्निराकारं युक्तं नान्यस्य वेदकम् । इति बौद्धेऽपि विज्ञाने न तु चिन्ता प्रवर्त्तते ॥ २०४७ ॥ नहि भगवतो ज्ञानं तस्य ग्राहकमिष्यते येनात्रापि चिन्ता क्रियेत । यावता तस्य सर्वावरणविगमान प्राह्यप्राहकविकल्पोऽस्तीतीष्टम् ॥ २०४७ ॥ ननु च यद्यपि बाह्योऽर्थो नास्ति ग्राह्यस्तथापि चित्तान्तरमत्येव सन्तानान्तरवर्ति, तद्भगवज्ज्ञानस्य किमिति ग्राह्यं न भवेत् , अत्राह-अन्यरागादीति । अन्यरागादिसंवित्तौ तत्सारूप्यसमुद्भवात्। प्रामोत्यावृतिसद्भाव औपलम्भिकदर्शने ॥ २०४८॥ अन्यसन्तानवर्ति रागादिसंवेदनं हि यदि, परं सारूप्यादेव युक्तम् , नान्यथा, अतिप्रसङ्गात् । ततश्च यदि सर्वात्मना सारूप्यं तदा भगवतोऽपि ज्ञानं रक्तं स्यात् । एवं सति वेशावरणमाहीणं स्यादित्यावृतिसद्भावः प्राप्नोति । उपलम्भेन चरन्तीत्यौपलम्भिकास्तेषां दर्शने-मते । यद्वा-औपलम्भिके भगवतो दर्शने ज्ञानेऽभ्युपगम्यमाने सतीत्ययमर्थः । अथैकदेशेन सारूप्यं तथापि ब्याकारस्यापहीणत्वाज्ज्ञेयावरणसदावः प्राप्नोति, प्राह्याकारकलङ्कितत्वात् , तथा कस्य द्वैरूप्यं भाविकमयुक्तमिति तवश्यं भ्रान्तं व्यवस्थापनीयम् । ततश्च भ्रान्तिबीजस्यादोषस्याल्पस्याप्रहाणावप्रहीणावरण एव भगवान्स्यात् ॥ २०४८॥ यदि न किंचिजानाति कथं तर्हि सर्वज्ञः स्यादित्याह-कल्पपादपवदित्यादि ।

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832