Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 823
________________ ५७२ तत्त्वसनहः। अन्यनि समित्येतत्तृतीयं पक्षान्तरमाश्रित्याह-अन्याकारमपीत्यादि । अन्याकारमपि ज्ञानं कथमन्यस्य वेदकम् ।। सर्वः स्यात्सर्वसंवेद्यो न हेतुश्च नियामकः ॥ २०४० ॥ अथापि स्यात्-यज्ज्ञानं येन जनितं तत्तस्यैव संवेदकं भवेत्, तेन न सर्वः सर्वसंवेद्यो भविष्यतीत्याह-न हेतुश्च नियामक इति । चक्षुरादीनामपि संवेद्यत्वप्रसङ्गादिति भावः ॥ २०४०॥ यथाहीत्यादिना भदन्तशुभगुप्तस्य परिहारमाशकृते । __ यथाहि भवतां ज्ञानं निराकारं च तत्त्वतः। वेत्ति चाभूतमाकारं भूतं सर्वं तथैव चेत् ॥ २०४१॥ स ह्याह-यथैव भवतां विज्ञानवादिनां विज्ञानं परमार्थतो निराकारम् 'अधातुकनकाकाशशुद्धिवगुद्धिरिष्यत' इति वचनात्, अथ च तमाकारं वेत्ति, तथा बाह्यमपीति ॥ २०४१॥ अत्राह–असाधारणमित्यादि । असाधारणमेवेदं वरूपं चित्तचैत्तयोः। संवेदनं ततोऽन्येषां न मुख्यं तत्कथश्चन ॥ २०४२॥ एकसामग्यधीनस्वं कार्यकारणतादि च । समाश्रित्य भवेन्नाम भाक्तं भूतस्य वेदनम् ॥ २०४३ ॥ नीरूप्यस्य तु भावस्य नैकसामग्यधीनता। नचान्यत्तेन नैवास्ति गौणमप्यस्य वेदनम् ॥ २०४४ ॥ नह्यभूतस्य मुख्यसंवेदनमस्ति । तथाहि-यदेव प्रकाशात्मकमसाधारणमहङ्कारास्पदं सातादिरूपेण प्रथते रूपमात्मा चित्तचैत्तानां तदेव तेषां संवेदनं मुख्यम् । ततो ज्ञानात्मनोऽन्येषामभूताकाराणां न तन्मुख्यं संवेदनं युक्तम् । तेषामभूतत्वादेव । नापि गौणमुपचारनिमित्ताभावात् । तथाहि-एकसामध्यधीनत्वं, कार्यकारणभावः, आदिशब्देन सारूप्यम् , एतदुपचारनिबन्धनं भवेत् । न चाभूतस्यैतत्सर्वमस्ति । न चान्यदस्त्युपचारनिमित्तम् । केवलमविद्यावशादविषयमेवाभूताकारोपदर्शकं ज्ञानं प्रान्तं जायते ॥ २०४२ ॥ २०४३ ॥ २०४४ ॥ ___ स एव तर्हि विभ्रमोऽसत्याकारसंवेदने उपचारनिमित्तं भविष्यतीति चेत्, अत्राह-अथवेत्यादि।

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832