Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 819
________________ बदा व सत्त्वं प्राणभृतां सर्वे विपक्षणाः सर्वज्ञेनावसीयन्ते तदा कथमेकेनैवोपलम्भः सिद्धः स्यात् । किं चान्योपलम्भनिषेधे सत्येकोपलम्भनियमः सिद्ध्यति । नधान्योपलम्भप्रतिषेधसम्भवः, खभावविप्रकृष्टस्य विधिप्रतिषेधायोगात् । अब सहशब्द एककालविवक्षया वदा बुद्धविज्ञेयचिकेन चित्तचैत्तैश्च सर्वथाऽनैकान्तिकताहेतोः । यथा किल बुद्धस्य भगवतो यद्विज्ञेयं सन्तानान्तरचित्तं तस्य बुझानख च सहोपलम्भनियमेऽ(प्य)स्त्येव च नानात्वम् , तथा चित्तचैत्तानां सत्यपि सहोपलम्भे नैकत्वमित्यतोऽनैकान्तिको हेतुरिति । तदेतत्सर्वमसम्यक् । न सकेनैवोपलम्भ एकोपलम्भ इत्ययमर्थोऽभिप्रेतः । किं तर्हि ? । ज्ञानज्ञेययोः परस्परमेक एवोपलम्भो न पृथगिति । य एव हि ज्ञानोपलम्भः स एव शेयस्य य एव शेयस्य स एव ज्ञानस्येति यावत् । नच नटचन्द्रमल्लप्रेक्षासु कश्चिज्ज्ञानोपलम्भोऽस्ति यो न शेयोपलम्भकः शेयोपलम्भो वा न ज्ञानोपलम्भक इति कुतोऽसिद्धता । नापि संदिग्धासिद्धता । तथाहि-यदेवात्मसंवेदनं ज्ञानस्य तदेवार्थस्येति परेणापि बाह्या वादिनाङ्गीकृतम् । एतेनैकस्यैवोपलम्भ एकोपलम्भ इत्येवं विकल्प्य योऽसिद्धतादोष उक्तः स तत्पक्षानङ्गीकृतेरेवापास्तो द्रष्टव्यः । नच बुद्धस्य भगवतश्चित्तेन परसन्तानवर्तिनश्चित्तक्षणा अवसीयते । तस्य भगवतः सर्वावरणविगमेन ग्राह्यग्राहककलङ्करहितत्वात् । यथोक्तम्-"प्रायं न तस्य ग्रहणं न तेन ज्ञानान्तरप्राह्यतयापि शून्य" इ(मि?)ति । अक्षुण्णविधानं त्वाधिपत्यमात्रेण । यथोक्तम्-पूर्वप्रणिधानाहितसवतानाभोगवाहि परकार्यमिति सर्वार्थकारित्वात्सर्वज्ञ इष्यत इति वक्ष्यति । तस्मानासिद्धता हेतोरिति । ननु चाचार्यधर्मकीर्तिना "विषयस्य ज्ञानहेतुतयोपनिधिः प्रागुपलम्भः पश्चात्संवेदनस्येति चे"दित्येवं पूर्वपक्षमादर्शयता-एककालार्थः सहशब्दोऽत्र दर्शितो नत्वभेदार्थः, एककाले हि विवक्षिते कालभेदोपदर्शनं परस्य युक्त नत्वभेदे सतीति चेन्न । कालभेदस्य वस्तुभेदेन व्याप्तत्वात्काल(भेदोप)दर्शनमुपलम्भे नानात्वप्रतिपादनार्थमेव सुतरां युक्तम् , व्याप्यस्य व्यापकाव्यभिचारात् । नापि बुद्धविज्ञेयचित्तेनानैकान्तिको हेतुः, नहि तत्रैकोपलम्भ(नियमोs)स्ति, पृथक् पृथ सबैरेव तस चित्तस्य संवेदनात् । अतएव चित्तविपर्ययविचारस्तेषामपि प्रत्येकमात्मन एव संवेदनात् । अथवा भवतु भगवचित्तेन परचित्तस्य संवेदनं तथापि नानकान्तिकता । नियमेन व्यावर्चितत्वात् । ययोहि परस्परमुपलम्भनानात्वमपि सम्भवति तजियमेन व्यावसिवं नतु पुनरुपलमानां सन्तानकाले भेदेन खलक्षणा

Loading...

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832