Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 817
________________ तत्त्वसकहः। समर्थतस्य बहिरङ्गत्वात् । अथ बहिरङ्गोऽपि सन् प्रतिवधीयातवा न कदाचित् कमि(दु)द्धिमनुभवेत् । तथाहि-न काचिदवस्थाऽस्ति यस्यामर्थो न सनिहित इति । स्मृतिरप्युच्छिन्ना स्यादनुभवाभावात् । किंच-येऽतीतादिविकल्पा विषयसन्निधानमन्तरेण भवन्ति तेषां संचारकारणाभावाद्विकल्पपरंपरायामासंसारमवस्था- २. नान कस्यचिदर्थचिन्ता स्यात् । भवतु नामार्थान्तरसंचारोऽनुपपद्यमानोऽपि । तथाऽपि यत्तदन्यज्ज्ञानं तत्केनानुभूयेतेति वक्तव्यम् । अथ स्यात्-सैवोत्तरा बुद्धिरान्तरमाहिणी पूर्वा धियमर्थ चोभयमपि गृहातीति, तदेतदसम्यक् । तथाहियदा शब्दज्ञानादनन्तरं रूपप्राहि ज्ञानं भवति तदा तस्मिन्रूपप्राहिणि ज्ञाने शब्दज्ञानस्य प्रतिभासात्तदा रूढस्यापि शब्दस्य प्रतिभासः प्राप्नोति । यस्यापि निराकारज्ञानं तस्यापि न शब्दप्रहणमन्तरेण तद्ब्राहकस्स ग्रहणं युक्तम्, नहि दण्डग्रहणमन्तरेण तद्राहकस्य दण्डिनो ग्रहणं न्याय्यमिति रूपमाहिणि चक्षुर्ज्ञाने शब्दस्यापि प्रतिभासः स्यात् । तथा चिन्ताज्ञानेप्यकारादिविषयिणि यथोक्तनीयाऽमिलापद्वयमेकस्मिन्नु(क)क्रमेण स्यात् । तथाहि यदेकारचिन्तासमनन्तरमकारं चिन्तयंति तदा तदकारचिन्ताज्ञानमिकारप्राहकमपि चिन्तयतीति खज्ञानसमारूढस्येकारामिलापस्याकारामिलापिनि ज्ञाने प्रतिभासः प्राप्नोति । किंच-सर्वमेव वस्तु वारद्वयं प्रतिभासेत, वज्ञानकालेऽवभासनात् । न चैवं प्रतिभासोऽस्तीत्ययुक्तमुत्तरया बुखा द्वयोर्ग्रहणम् । अथापि स्यादेकमन्यं ज्ञानमननुभूतमस्मृतं चास्तां को दोषः स्यादित्याह-गोचरान्तरसंचार इति । स्वसंवित्तेरनभ्युपगमान स्वतः सिद्धता,(ना)पि परतः, अनव. स्थादोषात् , तस्यान्तस्यासिद्धौ सत्यां पूर्वकस्याप्यसिद्धिः, अप्रत्यक्षोपलम्भकत्वात् , ततश्चार्थस्याप्यसिद्धिरिति न. कदाचित्किंचिदुपलभ्येत । ततश्चान्ध्यमायातमशेषस्य जगतः । अथान्तस्य यथोक्तदोषभयात्वसंवित्त्या स्वत एव सिद्धिरभ्युपगम्यते तदा तद्वदेव सर्वस्य ज्ञानत्वाविशेषात्स्वसंविदस्तु । प्रयोगः-यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितान्यव्यापारं ज्ञानत्वात् , अन्त्यज्ञानवत् , ज्ञानं च विवादास्पदीभूतं ज्ञानमिति स्वभावहेतुः । अन्यथा हि यत्स्वतो न सिद्धस्तस्य घटादिवजडरूपतया ज्ञानत्वमेव हीयेतेति बाधकं प्रमाणम् ।। २०२६ ॥ २०२७ ॥ २०२८ ॥ सति प्रकाशकत्वे व्यवस्था दृश्यते यथेत्याह-विज्ञानं जनयदित्यादि । विज्ञानं जनयद्रूपे चक्षुस्तस्य प्रकाशकम् । नतु तस्यावबोधवात्तज्ज्ञानेनास्य कोपमा ॥ २०२९ ।

Loading...

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832