Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 797
________________ तत्वमहा। वासनापरिपाकस्याकुलत्वम् । यथानुभूतप्रतिनियतदेशकालखमावाविभेदरूपेनाप्रवृत्तिः । तत्र यदुक्तं पार्षाकेण जातिस्मरणमसिद्धम् । एकमामागतानां सर्वेषां स्मरणादिति । तदनेन प्रतिक्षिप्तं भवति । तथाहि-एकमामागवा अपि सर्वे न स्मरन्ति । यतस्तत्र केचन तेषां मध्ये ये मन्दमतयस्ते मुषितस्मृतयो भवन्त्येव । आसामिति । वाचाम् ॥ १९४६ ॥ स्वल्पीयानपीत्यादिना प्रसङ्गविपर्यये हेतोः पक्षकदेशासिद्धतामाह खल्पीयानपि येषां तु नोपघातो महात्मनाम् । भूयन्ते विस्फुटा वाचस्तेषां सा च स्मृतिः स्फुटा॥१९४७॥ महात्मनामिति । पुण्यवताम् ॥ १९४७ ॥ । पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह-रागद्वेषादयश्चेत्यादि । रागद्वेषादयश्चामी पटवोऽभ्यासयोगतः। अन्वयव्यतिरेकाभ्यां भवन्तः परिनिधिताः ॥ १९४८ ॥ इहत्याभ्यासरहितास्ते ये प्रथमभाविनः । को हेतुर्जन्मनस्तेषां यदि न स्याद्भवान्तरम् ॥ १९४९ ॥ न पालम्बनसानिध्यात्तेषां जन्मोपपद्यते । प्रतिसझानसद्भावे तावेऽप्यतदुवात् ॥ १९५० ।। प्रतिसवानिवृत्तौ च तेषां प्रावल्यदर्शनात् । नष्टाजातेपि विषये विपर्यासाभिवृद्धितः(नः१) ॥१९५१ ॥ शुभात्मीयस्थिरादींश्च समारोप्याङ्गनादिषु । रागादयः प्रवर्तन्ते तद्रूपा विषया नच ॥ १९५२ ॥ तदनालम्बना एव सहशाभ्यासशक्तितः। इहत्या अपि वर्तन्ते रागादित्वाचथोत्तरे ॥ १९५३ ॥ प्रयोगः-रागद्वेषामदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत्पाट सदभ्यासपूर्वकम् , ययेहैव जन्मनि पटुमन्दययोक्तगुणस्य पुरुषस्याभ्यासक्शादृष्टम् । अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित्पुरुषस्य तत्पाटवमिति कार्वहेतुः । अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति नासिद्धो हेतुः । अतएवाह-अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता इति ।

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832