Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 800
________________ पन्जिकासमेतः। तमादेते यदभ्यासपूर्वका आधभाविनः । स एवान्यभवः सिद्ध इति नास्तित्वता हता ॥ १९६१ ॥ तत्र बलासः- श्लेष्मा । पूर्ववदिति । यथा विषयेषु व्यभिचार उक्त: "प्रतिसयानसद्भावे तद्भावेऽप्यतदुद्भवादि"त्यादिना । किंच-श्लेष्मायुपचयापचयाभ्यां न रागादीनामुपचयापचयौ भवतः । नच यद्भेदाचस्य भेदो न भवति तत्तस्य कार्य युक्तमतिप्रसङ्गात् । तथा श्लेष्मणोऽपि तीब्रद्वेषो दृष्टो नतु तीव्ररागः, पित्तप्रकृतिरपि तीव्ररागो दृष्टो न तीब्रद्वेषादिरिति साङ्कर्य दृश्यते । न च यमन्तरेण यस्य भावः स तस्य हेतुर्युक्तः । यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि व्यभिचारान श्लेष्माविधर्मा रागादयः । तस्मादित्युपसंहारः । यदभ्यासपूर्वका इति । यस्मिन्नभ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः ॥ १९६० ॥ १९६१ ॥ इहत्येत्यादिना परकीयं चोद्यमाशङ्कते । इहत्याभ्यासपूर्वखे साध्ये दृष्टेष्टबाधनम् । भवान्तरीयहेतुत्वे साध्यशून्यं निदर्शनम् ॥ १९६२ ॥ अविशेषेण साध्ये तु हेतोरस्य विरुद्धता। तथैवान्यभवाभ्यासहेतुत्वविनिवर्तनात् ॥ १९६३ ॥ तत्रेदं चोधम्-ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविना साध्यं, पारलौकिकाभ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम् , तस्मिन्सिद्धे सामर्थ्यात्पारलौकिकाभ्यासपूर्वत्वमिष्टं सिद्धं भवतीति, पक्षत्रयम् । तत्र प्रथमे पक्षे दृष्टेष्टबाधनं नहाचमाविना रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टं, नापि चेष्टं परलोकवादिनेति दृष्टेटयो धनम् । द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, नहि कचिल्लोकायतस्य पारलौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति । तृतीयेऽपि पक्षे विरुद्धता हेतोः, तथैव-दृष्टान्तवदेव, अन्यभवाभ्यासपूर्वत्वस्येष्टस्याभावसाधनात् ॥ १९६२ ।। ॥ १९६३ ॥ सामान्येनैवेत्यादिना प्रतिविधत्ते । सामान्येनैव साध्यत्वं नच हेतोविरुद्धता। नहि तेन विरोषोऽस्य येन तद्विनिवर्तयेत् ॥ १९६४ ॥ इति लोकायतपरीक्षा।

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832