Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 809
________________ ५५८ तस्वसः । अपेतभागभेदश्च यः परैरणुरिष्यते । तत्रैवेयं कृताचिन्ता नानिष्टासम्भवस्ततः ॥ १९९३ ॥ भागानां परमाणुख मङ्गीकुर्वन्ति ते यदा। खप्रतिज्ञाच्युतिस्तेषां तदाऽवश्यं प्रसज्यते ॥ १९९४ ॥ प्रसङ्गसाधनत्वेन नाश्रयासिद्धतेह च । पराभ्युपेतयोगादिषलादैक्यं अपोयते ॥ १९९५ ॥ तदेवं सर्वपक्षेषु नैवैकात्मा स युज्यते। एकानिष्पत्तितोऽनेकखभावोऽपि न सम्भवी ॥ १९९६ ॥ असनिश्चययोग्योऽतः परमाणुर्विपश्चिताम् । एकानेकखभावेन शून्यस्वाद्वियदजवत् ॥ १९९७ ॥ अवश्यं हि परिनिष्ठितरूपं किंचिद्वस्तु परमाणुत्वेन तद्वादिनाऽङ्गीकर्तव्यम् । अन्यथा ह्यनवस्थायामनवधारितरूपत्वादनुपाख्यत्वमेव स्वयं प्रतिपादितं स्यात् । ततश्चेष्टसिद्धिरेव परस्य कृता स्यात् । तस्माद्यदेव परिनिष्ठितं त्वया व्यवस्थापितमणुत्वेन तत्रैवानपाश्रितानवस्थाविकल्पे यदा चिन्ता क्रियते तदा कथमनवस्था, स्यादि परमनवस्थया स्वाभ्युपगमविरोधः कृतः स्यात् । नतु परस्य किंचिदनिष्टमापादितम् । एतावतैव परस्येष्टसिद्धेः प्रसङ्गसाधनमेवेदम् । नचासिद्धता हेतोः । तथाहि परेण परमाणूनां संयुक्तत्वं नैरन्तर्य तथा बहुमिः सान्तरैः परिवारणं चेत्यभ्युपगतमन्यथा कथं च प्रत्ययो भवेत् , ततश्च यद्यपि दिग्भागभेदो वाचा नाभ्युपगतस्तथापि संयुक्तत्वादिधर्माभ्युपगमबलादेवापतति । नासत्यूर्द्धाधोभागादिभेदे संयुक्तत्वादिपक्षत्रयं युक्तं चित्तादिवदित्युक्तम् । यत्रोक्तमणुप्रज्ञप्तेरवश्यमुपादानमङ्गीकर्तव्यम् , यचदुपादानं स एव परमाणुर्भविष्यतीति । तदत्रात्येव मिथ्याशास्त्रश्रवणचिन्तनाहितवासनापरिपाको वातायनादिरेणुप्रतिमासा बुद्धिरणुभ्रान्तेर्निबन्धनम् । नहि य(त)त्यज्ञप्त्यां च तदेव कारणं युक्तमप्रज्ञप्तिसत्त्वप्रसङ्गादन्यथाऽऽत्मप्रशतेरात्मैव कारणं स्यात् , न स्कन्धाः । ततश्चाणुवदात्मप्रतिषेधोऽपि न स्यात् । एवं तावदेकत्वं परमाणूनामसिद्धम् । तत्सन्देहात्मकत्वात्तस्येति नासिद्धोऽणूनामभाषव्यवहारे साधनो हेतुः ॥ १९९३ ॥ १९९४ ॥ १९९५ ॥ १९९६ ॥ १९९७ ॥ एवं तावद्वामार्थस्यानेकस्खमावरहितत्वं प्रसाध्येदानीमेकखभावरहितत्वं प्रसाधय. माह-परमाणोरयोगाचेत्यादि ।

Loading...

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832