Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 810
________________ पलिकासमेतः। परमाणोरयोगाच न सन्नवयवी यतः। परमाणुभिरारब्धः स परैरुपगम्यते ॥१९९८ ॥ यैरप्यनारब्धः परमाणुमिस्स्थूल इष्टस्तेषां सोऽपि परमाणुवदिग्भागमिन्नत्वादेको न युक्तः, पाण्यादिकम्पादौ सर्वकम्पादिप्रसङ्गात् । स्पष्टत्वाद्बहुशश्चर्वितत्वान्न पृथक्तस्य दूषणमुक्तम् । तदेवं बाह्यार्थाव्यवहारसाधने यदेकानेकस्वभावं न भवतीत्यादौ प्रयोगे नासिद्धो हेतुरिति सिद्धो बाह्यस्य पृथिव्यादेयस्यासद्व्यवहारस्तदसिद्धौ प्राहकत्वमपि ज्ञानस्य तदपेक्षं कल्पितं नास्तीति सिद्धा विज्ञप्तिमात्रता ॥ १९९८ ।। तदेवमर्थायोगाद्विज्ञप्तिमात्रता प्रतिपाद्य सम्प्रति ग्राह्यप्राहकलक्षणवैधुर्यात्प्रतिपादयमाह-अनि समित्यादि । अनिर्भासं सनि समन्यनिर्भासमेव च । विजानाति नच ज्ञानं बाह्यमर्थ कथश्चन ॥ १९९९ ॥ न निराकारेण नापि साकारेण नापि विषयाकारादन्याकारेण बाह्यस्य ग्रहणं युक्तम्, अन्यश्च प्रकारो नास्ति, तस्मादात्मसंवेदनमेव सदैव ज्ञानं सत्यपि बाये सन्तानान्तर इति सिद्ध्यति विज्ञप्तिमात्रता। कैश्चिदन्याकारमपि ज्ञानमन्याकारस्यार्थस्य संवेदकमिष्टम् यथा किल पीताकारमपि ज्ञानं शुक्लशङ्खमाहीति । यथाह कुमारिल:-"सर्वत्रालम्बनं बाह्य देशकालान्यथात्मकम् । जन्मन्येकत्र भिन्ने वा सदा कालान्तरेऽपि च ॥” इति अतस्तृतीयं पक्षान्तरमाशङ्कितम् ॥ १९९९ ॥ ननु चात्मसंवेदनेऽप्येतेऽनिर्भासादयो विकल्पाः कस्मान्नावतरन्तीत्याह-विज्ञानमित्यादि । विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते। इयमेवात्मसंवित्तिरस्य याज्जडरूपता ॥ २०००॥ . नहि प्राहकभावेनात्मसंवेदनमभिप्रेतम् , किं तर्हि ? स्वयम्-प्रकृत्या प्रकाशात्मतया, नभस्तलवालोकवत् ॥ २०००॥ अथ कस्मादायग्राहकभावेन नेष्यत इत्याह-क्रियाकारकभावनेत्यादि । क्रियाकारकभावेन न खसंवित्तिरस्य तु। एकत्यानंशरूपस्य त्रैरूप्यानुपपत्तितः ॥ २००१॥ तदस्य बोधरूपत्वाद्युक्तं तावत्खवेदनम् । परस्य त्वर्थरूपस्य तेन संवेदनं कथम् ॥ २००२॥

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832