Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 808
________________ पविकासमेतः। चित्तक्षणस्यातीतानागताभ्यां चित्तलक्षणाभ्यां कालकृतनैरन्तर्यमस्ति, अथ च वर्तमा. नचिचक्षणल (न)कलामुहू विवत्सावयवत्वम् , एवमणूनां सत्यपि बहुमिः परिवारणे न देशकृतं सावयवत्वं भविष्यति । तदेतदसम्यक् । नहि वर्तमानचित्तलक्ष• णस्य पूर्वोत्तराभ्यां नैरन्तर्य परमार्थतोऽस्ति, तदानीं तयोरसत्त्वात् । न चासता सह पौर्वापर्य भाविकं युक्तं केवलं सहभूतयोर्न कार्यकारणभावोऽस्तीति तहारेण परिकल्प्य समुत्थापितं पूर्वापरयोः क्षणयोः सत्त्वं प्राक् पश्चादभाववत् । नचैवमणूनां देशकृतं पौर्वापर्य परिकल्पितं प्रचयाभावप्रसङ्गात् । किंच-न तावदहेतुकत्वं भा. वानां युक्तिमत् , नित्यं सत्त्वादिप्रसङ्गादिति । योऽपि सांघृतत्वं भावानां प्रतिपन्नस्तेनाप्यवश्यं सर्वभावानां सहेतुकत्वमेष्टव्यम् । सति च सहेतुकत्वे न तावत्समकाले कार्यकारणे युक्ते । नापि प्राकार्योत्पत्तेः, कारणस्यासत्त्वेनासामर्थ्यात् । पश्चादपि कार्ये समुत्पन्ने हेतोरनुपयोगात् । अतः प्राग्भावः सर्वहेतूनामवश्यमङ्गीकर्तव्यः । यथोक्तम्---"असतः प्रागसामर्थ्यात्पश्चाचानुपयोगतः । प्राग्मावः सर्वहेसूनां नातोऽर्थः स्वधिया सहे"ति । तदेवं निरंशत्वेऽपि सर्वभावानां न्यायतोऽवस्थितं कालकृतं पौर्वापर्य देशकृतं तु कथं स्याद्यदि सावयवत्वं न स्वादिति चोधते । अथासत्यपि सावयवत्वे देशकृतं पौर्वापर्य स्यात् , चित्तचैत्त्यानामपि स्यादविशेषावित्युतम् । भूर्तत्वकृतोऽस्ति विशेष इति चेन्न । तदेवासिद्धमसति सावयवत्वे । केवलं पर्यायेण सावयवत्वमेवोक्तं स्यात् , नान्यो विशेष इति यत्किचिदेतत् । तस्मात्सर्वभावानां न्याय्ये कालकृते पौर्वापर्ये सति यदेतदपरमधिकं कस्यचिद्देशकृतं पौर्वापर्य तत्सावयवत्वमन्तरेण न सम्भवतीति युक्तमुक्तम् । “दिग्भागभेदो यस्यास्ति तस्सैकत्वं न युज्यते” इत्यलं विस्तरेण ॥ १९९० ॥ १९९१ ॥ १९९२ ॥ अत्र केचिदाहुः-एवं तर्पणीयांसः प्रदेशाः सन्तु परमाणवस्तत्राप्यवयवकल्पनायां पुनरपि प्रदेशानामेवाणुत्वं भविष्यति, यदि परमनवस्यैव, नतु पुनः सावयवत्वासनेन शक्यतेऽणूनां प्राप्तिसत्त्वमापादयितुम् । अथापि प्रज्ञप्तिसत्वम् , एवमपि नियमेनैव प्रात्युपादानमङ्गीकर्तव्यम् । यत्तत्प्रज्ञत्युपादानं तस्यैव परमाणुत्वं भविव्यति । अथासत्त्वमेवाणूनां साध्यते, एवमपि दिग्भागभेदादित्यसिद्धत्वं हेतोः । नहि खरविषाणादयोत्सन्तासन्तः पूर्वादिदिग्भागभेदवन्तो भवन्ति । नापीदं प्रसङ्गसाधनं दिग्भागभेदसानभ्युपगतत्वादिति । अत्र प्रतिविधानमाह अपेतेखादि।

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832