Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 813
________________ १२ तस्वसाहः। रूपितेन रूपेण भावव्यवस्थाने सुव्यवस्थिता भावा इति यत्किचिदेतत् ॥ २००९ ॥ ॥ २०१०॥ . स्वादेतत्परिच्छेद्यार्थाभावे कस्यासौ परिच्छेदो भवेदित्याह-परिच्छेदः स कस्येत्यादि । - परिच्छेदः स कस्येति नच पर्यनुयोगभाक् । परिच्छेदः स तस्यात्मा सुखादेः साततादिवत् ॥ २०११ ॥ आत्मैव हि स तस्य प्रकाशात्मतया परिच्छेद इत्युच्यते । यथा सुखादेः साततेति, नहि सुखस्येति व्यतिरेकनिर्देशमात्रेण ततोऽन्या सा तथा भवेत् । तस्मायद्यपि नीलस्य परिच्छेदः पीतस्येति वा व्यतिरेकीव व्यपदेशस्तथापि स्वभाव एव स तथा नीलादिरूपेण प्रकाशमानत्वा(त)थोच्यते स्वसंवेदनरूपत्वाज्ज्ञानस्य ॥ २०११ ॥ . अथ कोऽयं खसंविदर्थो यद्बलात्तथोच्यत इत्याह-स्वरूपेत्यादि । खरूपवेदनायान्यद्वेदकं न व्यपेक्षते । नचाविदितमस्तीदमित्यर्थोऽयं खसंविदः ॥ २०१२ ॥ व्यापृतमित्यादिना स्वरूपवेदनायान्यन्न व्यपेक्षत इत्यत्र कुमारिलश्वोधमाशते । . व्यावृतं बर्थवित्तौ च नात्मानं ज्ञानमृच्छति। ततः प्रकाशकत्वेऽपि बोधायान्यत्प्रतीक्षते ॥ २०१३ ॥ स शाह-यद्यपि ज्ञानं प्रकाशात्मकं, तथाप्यात्मप्रकाशनाय परमपेक्षते । नतु खयमात्मानमृच्छति-प्रतिपद्यते, तस्यार्थप्रकाशन एव व्यापृतत्वात् । नोकत्र ब्यापृतस्य तदपरित्यागेनान्यत्र तदैव व्यापारणं युक्तम् ॥ २०१३ ।। अत्र प्रदीपेन व्यभिचरितामाशङ्कय पक्षान्तरमाह-ईशमित्यादि । ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम् । नचात्मानुभवोऽस्त्यस्येत्यात्मनो न प्रकाशकम् ॥ २०१४॥ नतु चासत्यात्मप्रकाशात्मकत्वे बाह्यप्रकाशकत्वमप्यस्य कथं व्यवस्थाप्यत इत्याह -सतीत्यादि । - सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा । रूपादौ चक्षुरादीनां तथाऽत्रापि भविष्यति ॥ २०१५॥ • यथा चक्षुरादीनां रूपादौ विषये प्रकाशकत्वव्यवस्थानमसत्यप्यात्मप्रकाशकत्वे, वयात्रापि शाने भविष्यति ॥ २०१५ ॥

Loading...

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832