Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 806
________________ ५५५ पलिकासमेतः। - परस्परविरुद्धात्मनैकरूपं कथं भवेत् । तथाहि-तुल्यातुल्ये रूपे परस्परपरिहारस्थितलक्षणे तत्कथं तदात्मकमेकं भवेत् । संवित्तेश्चेत्यादिना कुमारिलमतमाशङ्कते। संवित्तेच विरुद्धानामेकस्मिन्नाप्यसम्भवः ॥ १९८६ ॥ एकाकारं न चे(भवे?)देकमिति नेश्वरभाषितम् । तथाहि तदुपेतव्यं यद्यथैवोपलभ्यते ॥ १९८७ ॥ स पाह-एकस्मिन्वस्तुनि परस्परविरुद्धानामाकाराणामसम्भव इत्येतत्रास्ति । कस्मात् ? । संवित्तेः कारणात् । तथाहि एकाकारेणैवैकेन वस्तुना भवितव्यमिति नेयमाझा राज्ञाम् , किं तु यद्यथोपलभ्यते तत्तथैवाभ्युपगन्तव्यम् । प्रतीतिनिबन्धनत्वाद्वस्तुव्यवस्थायाः । एकानेकाकारा च सत्तारूपादिभेदतः प्रतीतिर्भवन्ती समुपलभ्यते । तस्मात्तथैव व्यवस्थाप्यत इति ॥ १९८६ ॥ १९८७ ॥ तन्नेत्यादिना प्रतिविधत्ते। तन्नासतोऽपि संवित्तेः कम्बुपीतादिरूपवत् । विरुद्धधर्मसङ्गात्तु नान्यद्भेदस्य लक्षणम् ॥ १९८८ ॥ . एवं सति न किचिद्विज्ञानं भ्रान्तं स्यादिव्यवहारोच्छेदप्रसङ्गश्च । अथ बाध्यमानत्वात्कस्यचिद्धान्तत्वं स्यात् । तदैकस्मिन्ननेकविज्ञानं बाभ्यमानं कथमभ्रान्तं भ. वेत् । एवं तावदणूनां (न) प्रत्यक्षतो नाप्यनुमान(त:)सिद्धिरिति न बाबार्थापहवे प्रत्यक्षविरोधः प्रतिज्ञायाः । नापि हेतोरसिद्धता ॥ १९८८ ॥ इदानीं पर एकानेकस्वभावरहितत्वादित्यस्य हेतोः सन्दिग्धासिद्धतामुद्रावयमाह -माभूदित्यादि। माभूत्ममाणतः सिद्धिरणूनामस्तु संशयः। अभाव(निश्चयोस्त्वेषां कथं प्रेक्षावतां भवेत् ॥ १९८९ ॥ संयुक्तमित्यादिना प्रतिविधत्ते। . संयुक्तं दूरदेशस्यं नैरन्तर्यव्यवस्थितम् । एकावभिमुखं रूपं यदणोर्मध्यवर्तिनः ॥ १९९० ॥ अण्वन्तराभिमुख्येन तदेव यदि कल्प्यते। प्रथयो भूधरादीनामेवं सति न युज्यते ॥१९९१ ॥ : ..

Loading...

Page Navigation
1 ... 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832