Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 804
________________ परिकासमेतः। लिङ्गागमव्यापारानपेक्षमित्यवधार(ज)न दर्शयति । तथाहि-प्रत्यक्षमविशेषेणोत्पममपि सपत्रैवांशे यथा परिगृहीताकारपरामर्श जनयति स एव प्रत्यक्ष इष्यते व्यवहारयोग्यतया, यत्र तु न जनयति तद्गृहीतमप्यगृहीतप्रख्यम् । ततश्च नासिद्धो हेतुः । यतः प्रत्ययाप्रतिवेदनावित्यत्र प्रत्यक्षामिमते प्रत्यये परामर्शहेतावप्रतिभासनादित्ययमर्थोऽभिप्रेतः । यत्रोक्तं स्थूल इति मानस एष विभ्रम इति, तदप्यसम्यक् । तथाहि-प्रमाणेनाणौ सिद्धे सति स्याद्विभ्रमव्यवस्था । यथा क्षणिकत्वस्य प्रमाणेन सिद्धत्वान्नित्यत्वप्रहो भ्रान्तो व्यवस्थाप्यते । नच तथा प्रमाणेन परमाणवः सिद्धास्तेषामेव विचार्यमाणत्वात् । नचेयं स्थूलभ्रान्तिर्मानसी, स्पष्टप्रतिभासनात् । नच विकल्पानुबद्धस्य स्पष्टाकारो युक्तः, सामान्याकारस्यास्पष्टत्वात् । नच सामान्याकारमन्तरेण विकल्पो युक्तः । स्यादेतत् । अनित्यतादिवदणवोऽपि सिद्धा एव प्रमाणतः । तथाहि-यद्यत्स्थूलं तत्तत्सूक्ष्मप्रचयात्मकम् , यथा पर्वतादयः, स्थूलं चाद्यचाक्षुषमवयविद्रव्यमिति स्वभावहेतुः । चाक्षुषप्रहणमचाक्षुषस्य व्यणुकादेर्व्यवच्छेदाय । तत्र यदि स्थूलत्वादिति पारमार्थिक स्थूलत्वं च वस्तुधर्ममाश्रित्योच्यते हेतुस्तदा साध्यधर्मिणि दृष्टान्तधर्मिणि च धर्मिद्वयेऽपि प्रतिनादिनो न सिद्धं स्थूलत्वमिति तदा हेतुरसिद्धो दृष्टान्तश्च साधनविकलः । अथ यदेतदेशवितानेन प्रतिभासमानमविचाररमणीयमागोपालादि प्रसिद्धं रूपं स्थूलत्वादित्युच्यते तदा भ्रान्तेऽपि खमादिज्ञाने परमाणुप्रचयमन्तरेणापि तथा प्रतिभासि रूपमस्तीति हेतोरनैकान्तिकता । अथाभ्रान्तत्वे सतीति विशेषणमुपादीयते तदा विज्ञानवादिनं प्रति खस्थनेत्रादिज्ञानाकारस्य यावत्स्वप्नादिज्ञानाकाराव्यतिरेको विशेषो न प्रसाध्यते तावन्न कचिदभ्रान्तत्वं सिद्धमिति विशेषणमप्यसिद्धम् । स्यादेतदस्त्येव खस्थनेत्रादिज्ञानस्य खनादिज्ञानादर्थक्रियासंवादेन विशेष इति । तत्र कोऽयमर्थक्रियासंवादो नाम । यदि बाह्यार्थप्राप्तिः सा न सिद्धा बाह्यार्थीसिद्धस्तस्यैव साध्यत्वेन प्रस्तुतत्वात् । अथामिमतार्थक्रियावभासिज्ञानमेवार्थक्रियासंवादस्तदाऽयमन्यथाऽपि बाहालम्बनमन्तरेणापि सम्भाव्यत इति तथा हेतोरनैकान्तिकतैव । कथमन्यथाऽपि संभाव्यत इत्याह-सामर्थ्यनियमाद्धेतोरिति । हेतोः समनन्तरप्रत्ययस्य सामर्थ्यभेदनियमात् । कश्चिदेव हि समनन्तरप्रत्ययः किंचिद्विज्ञानं जनयितुं समर्थो न सर्वः सर्वम् । यया भवता बायोऽर्थ इति तत एव नियमः सिद्धः ॥ १९७३ ॥ १९७४॥ ॥ १९७५ ॥ १९७६ ॥ १९७७ ॥ १९७८ ॥ १९७९ ॥ ७.

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832