________________
परिकासमेतः। लिङ्गागमव्यापारानपेक्षमित्यवधार(ज)न दर्शयति । तथाहि-प्रत्यक्षमविशेषेणोत्पममपि सपत्रैवांशे यथा परिगृहीताकारपरामर्श जनयति स एव प्रत्यक्ष इष्यते व्यवहारयोग्यतया, यत्र तु न जनयति तद्गृहीतमप्यगृहीतप्रख्यम् । ततश्च नासिद्धो हेतुः । यतः प्रत्ययाप्रतिवेदनावित्यत्र प्रत्यक्षामिमते प्रत्यये परामर्शहेतावप्रतिभासनादित्ययमर्थोऽभिप्रेतः । यत्रोक्तं स्थूल इति मानस एष विभ्रम इति, तदप्यसम्यक् । तथाहि-प्रमाणेनाणौ सिद्धे सति स्याद्विभ्रमव्यवस्था । यथा क्षणिकत्वस्य प्रमाणेन सिद्धत्वान्नित्यत्वप्रहो भ्रान्तो व्यवस्थाप्यते । नच तथा प्रमाणेन परमाणवः सिद्धास्तेषामेव विचार्यमाणत्वात् । नचेयं स्थूलभ्रान्तिर्मानसी, स्पष्टप्रतिभासनात् । नच विकल्पानुबद्धस्य स्पष्टाकारो युक्तः, सामान्याकारस्यास्पष्टत्वात् । नच सामान्याकारमन्तरेण विकल्पो युक्तः । स्यादेतत् । अनित्यतादिवदणवोऽपि सिद्धा एव प्रमाणतः । तथाहि-यद्यत्स्थूलं तत्तत्सूक्ष्मप्रचयात्मकम् , यथा पर्वतादयः, स्थूलं चाद्यचाक्षुषमवयविद्रव्यमिति स्वभावहेतुः । चाक्षुषप्रहणमचाक्षुषस्य व्यणुकादेर्व्यवच्छेदाय । तत्र यदि स्थूलत्वादिति पारमार्थिक स्थूलत्वं च वस्तुधर्ममाश्रित्योच्यते हेतुस्तदा साध्यधर्मिणि दृष्टान्तधर्मिणि च धर्मिद्वयेऽपि प्रतिनादिनो न सिद्धं स्थूलत्वमिति तदा हेतुरसिद्धो दृष्टान्तश्च साधनविकलः । अथ यदेतदेशवितानेन प्रतिभासमानमविचाररमणीयमागोपालादि प्रसिद्धं रूपं स्थूलत्वादित्युच्यते तदा भ्रान्तेऽपि खमादिज्ञाने परमाणुप्रचयमन्तरेणापि तथा प्रतिभासि रूपमस्तीति हेतोरनैकान्तिकता । अथाभ्रान्तत्वे सतीति विशेषणमुपादीयते तदा विज्ञानवादिनं प्रति खस्थनेत्रादिज्ञानाकारस्य यावत्स्वप्नादिज्ञानाकाराव्यतिरेको विशेषो न प्रसाध्यते तावन्न कचिदभ्रान्तत्वं सिद्धमिति विशेषणमप्यसिद्धम् । स्यादेतदस्त्येव खस्थनेत्रादिज्ञानस्य खनादिज्ञानादर्थक्रियासंवादेन विशेष इति । तत्र कोऽयमर्थक्रियासंवादो नाम । यदि बाह्यार्थप्राप्तिः सा न सिद्धा बाह्यार्थीसिद्धस्तस्यैव साध्यत्वेन प्रस्तुतत्वात् । अथामिमतार्थक्रियावभासिज्ञानमेवार्थक्रियासंवादस्तदाऽयमन्यथाऽपि बाहालम्बनमन्तरेणापि सम्भाव्यत इति तथा हेतोरनैकान्तिकतैव । कथमन्यथाऽपि संभाव्यत इत्याह-सामर्थ्यनियमाद्धेतोरिति । हेतोः समनन्तरप्रत्ययस्य सामर्थ्यभेदनियमात् । कश्चिदेव हि समनन्तरप्रत्ययः किंचिद्विज्ञानं जनयितुं समर्थो न सर्वः सर्वम् । यया भवता बायोऽर्थ इति तत एव नियमः सिद्धः ॥ १९७३ ॥ १९७४॥ ॥ १९७५ ॥ १९७६ ॥ १९७७ ॥ १९७८ ॥ १९७९ ॥
७.