________________
५५९,
तत्त्वसाहः। मूळ इत्यभ्युपगन्तव्यमिति स्ववचनविरोध प्रतिक्षायामाह-लब्धापचयेत्यादि । लग्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, तत्तथोक्तम् । एतदुक्तं भवति-यथपचीयमानावयवविभागेनापचीयमानखभावा न भवन्ति, यदि निरंशा इति यावत् , तदा न मूर्त्ता वेदनादिवत्सिद्ध्यन्ति, विशेषाभावात् ॥ १९७० ॥ १९७१ ॥ तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशते ।
तुल्यापरक्षणोत्पादायथा नित्यत्वविनमः ।
अविच्छिन्नसजातीयग्रहे चेत्स्थूलविभ्रमः ॥ १९७२ ॥ स साह-यथा सदृशापरापरक्षणोत्पादाद्विपलब्धस्य गृहीतेऽपि प्रत्यक्षेण शब्दादौ नित्यत्वविभ्रमस्तथा परमाणुनामविच्छिन्नदेशानां सजातीयानां युगपद्हणे स्थूल इति मानसो विभ्रमो भवति । ततश्च 'निरंशानेकमूर्तानां प्रत्ययाप्रतिवेदनादियसिद्धो हेतुरिति ॥ १९७२ ॥ स्वव्यापारेत्यादिना दूषणमाह-स्वव्यापारबलेनैवेति । '
खव्यापारवलेनैव प्रत्यक्षं जनयेदि । न परामर्शविज्ञानं कथं तेऽध्यक्षगोचराः ॥ १९७३॥ क्षणिका इति भावाच निश्चीयन्ते प्रमाणतः। अणवस्विति गम्यन्ते कथं पीतसितादयः ॥ १९७४ ॥ सूक्ष्मप्रचयरूपं हि स्थूलखादायचाक्षुषम् । पर्वतादिवदनापि समस्त्वेषाऽनुमेति चेत् ॥ १९७५ ॥ स्थूलखें वस्तुधर्मो हि सिद्धं धर्मिद्वयेऽपि न । न वस्त्यवयवी स्थूलो नाणवश्च तथाविधाः ॥ १९७६ ॥ अथ देशवितानेन स्थितरूपं तथोदितम् । तथापि भ्रान्तविज्ञानभासिरूपेण संशयः ॥ १९७७ ॥ वैतथ्यात्स तथा नो चेदयतिरेकेऽप्रसाधिते । तमादतिशयः कोऽस्य कार्यसंवादनं यदि ॥ १९७८ ॥ कार्यावभासिविज्ञानसंवादेऽपि ननूच्यते । सामर्थ्यनियमाद्धेतोः स च सम्भाव्यतेऽन्यथा ॥ १९७९ ॥