________________
परिकासमेतः। विच्छिममित्यनेन ज्ञानाव्यतिरिक्तस्य प्रायस्य सिद्धिमादर्शयति, विस्पष्टमित्यनेन तु प्रत्यक्षताम् । एतदेव प्रसङ्गेन द्रढयन्नाह-तस्यैवमित्यादिना ॥ १९६५ ॥ ॥ १९६६॥ भासमान इत्यादिना प्रतिविधत्ते ।
भासमानः किमात्माऽयं बायोऽर्थः प्रतिभासते। परमाणुखभावः किं किं वाऽवयविलक्षणः ॥ १९६७ ॥ न तावत्परमाणूनामाकारः प्रतिवेद्यते। निरंशानेकमूर्ताभ(नां) प्रत्ययाप्रतिवेदनात् ॥ १९६८ ॥ व्यपेतभागभेदा हि भासेरन्परमाणवः ।
नान्यथाऽध्यक्षता तेषामात्माकारासमर्पणात् ॥ १९६९ ॥ तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽमिनो भवेत् , एको वा तैरारब्धोऽवयवी, स्थूलोऽनारब्धो वेति पक्षाः । तत्र न तावदाद्यः, निरंशानामनेकेषामणूनां मूर्तानां प्राहकस्य प्रत्ययस्याप्रतिवेदनात् । नित्यं स्थूलाकारस्यैव ज्ञानस्यानुभूयमानत्वात् । प्रत्यये तेषामप्रतिवेदनादिति सप्तम्यन्तस्य पाठोऽसमसः। प्रयोगःयः प्रत्यक्षामिमते प्रत्यये न प्रतिभासते खेनाकारण, न स प्रत्यक्षत्वेन प्रहीतव्यः, यथा गगननलिनम् , न प्रतिभासते च प्रत्यक्षामिमते प्रत्यये स्थूलाकारोपपाहिणि परमाणुरनेको मूर्त इति व्यापकानुपलब्धिः । आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य व्याप्तत्वात् । तामेव व्याप्ति प्रतिपादयन्नाह-व्यपेतेत्यादि । १९६७ ॥ १९६८॥ ॥ १९६९ ।। __ अथापि स्यात्समुदिता एवोत्पद्यन्ते विनश्यन्ति चेति सिद्धान्तानैकैकपरमाणुप्रतिभास इति, यथोक्तं भदन्तशुभगुप्तेन-"प्रत्येकपरमाणूनां खातब्येणास्ति सम्भवः । अतोऽपि परमाणूनामेकैकाप्रतिभासनम् ॥” इति । तदेतदनुत्तरमिति दर्शयन्नाहसाहित्येनापीति।
साहित्येनापि जातास्ते खरूपेणैव भासिनः। त्यजन्त्यनंशरूपत्वं न चेत्ता(नच ता?)सुदशाखमी॥१९७०॥ लब्धापचयपर्यन्तं रूपं तेषां समस्ति चेत् ।
कथं नाम न ते मूर्ती भवेयुर्वेदनादिवत् ॥१९७१ ॥ तासु दशास्विति । संहितावस्थासु । किंच-यदि निरंशाः परमाणवो न तर्हि