________________
५५.
तत्त्वसङ्ग्रहः।
तृतीय एवात्र पक्षोऽभिप्रेतः, न च हेतोविरुद्धता कस्मात् । नहि तेनान्यभवाभ्यासपूर्वत्वेनास्य रागादित्वस्य कश्चिद्विरोधोऽस्ति । येन तत्पारलौकिकाभ्यासपू. वत्वं निवर्चयेत् । अपिच-अयं लोकः परलोक इत्यवस्थाभेदकृतव्यवस्थामात्रमेतत् । बालयौवनादिभेदवत् । अनादित्वं त्वनेन प्रकारेण साध्यत इति नानामिनिवेष्टव्यम्। (प्रतिवादिसन्निभमित्येतत्) (?) ॥ १९६४ ॥
इति लोकायतपरीक्षा। प्रतिविवादिसनिभमित्येतत् । प्रतीत्यसमुत्पादविशेषणसमर्थनार्थमिदानीं विज्ञानवादीदमुपक्षिपति । तत्र विज्ञप्तिमात्रमेवेदं त्रैधातुकं, तब विज्ञानं प्रतिसत्त्वसन्तानमेदादनन्तमविशुद्धं चानधिगततत्त्वानां विशुद्धं च प्रहीणाचरणानां प्रतिक्षणविसरारु च सर्वप्राणभृतामोजायते, नत्वेकमेवाविकारि यथोपनिषद्वादिनामिति विज्ञानवादिनां बौद्धानां मतम् । तत्राभ्यां प्रकाराभ्यां विज्ञप्तिमात्रताभीष्टा, बाह्यस्य पृथिव्यादिखभावस्य ग्राहस्याभावे प्राहकत्वस्याप्यभावात् । सत्यपि वा सन्तानान्तरे प्रायप्राहकलक्षणवैधुर्यात् । तत्र प्रयोगः-यद्यज्ञानं तत्तत् प्राद्यप्राहकत्वद्वयरहितं ज्ञानत्वात् , प्रतिबिम्बज्ञानवत् , ज्ञानं चेदं स्वस्थनेत्रादिज्ञानं विवादास्पदीभूतमिति स्वभावहेतुः । नचाव्याप्तिरस्य हेतोर्मन्तव्या । तथाहि न तावत्पृथिव्यादिबाह्योऽर्थोऽस्य प्रायो विद्यते, तस्यैकानेकखमावशून्यत्वात् । प्रयोगः यदेकानेकखभावं न भवति न तत्सत्त्वेन प्राचं प्रेक्षावता, यथा व्योमोत्पलम् , एकानेकखभावरहिताश्च परामिमताः पृथिव्यादय इति व्यापकानुपलब्धिः । तृतीयराश्यन्तराभावेनैकत्वानेकत्वाभ्यां सत्त्वस्य व्याप्तत्वाव्याप्यव्यापकभावानुपपत्तिर्विपर्यये बाधकं प्रमाणमिति नानैकान्तिकताऽनन्तरस्य हेतोः । नापि विरुद्धता, सपक्षे भावात् । अत्रास हेतोरसिद्धतामुद्रावयन् , यथोक्तम् 'भूतान्येव न सन्तीति न्यायोऽयं पर इष्यता मिति
-असाच प्रतिज्ञायाः प्रत्यक्षादिविरोधमादर्शयन् , प्रथमस्य हेतोरव्याप्तिमेव प्रतिपादयितुं पर आह-यदि ज्ञानातिरेकेणेत्यादि ।
यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम् । तत्किमेतबु विच्छिन्नं विस्पष्टमवभासते ॥ १९६५ ॥ तस्यैवं प्रतिभासेऽपि नास्तितोपगमे सति । चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत् ॥ १९६६ ॥