________________
पन्जिकासमेतः। तमादेते यदभ्यासपूर्वका आधभाविनः ।
स एवान्यभवः सिद्ध इति नास्तित्वता हता ॥ १९६१ ॥ तत्र बलासः- श्लेष्मा । पूर्ववदिति । यथा विषयेषु व्यभिचार उक्त: "प्रतिसयानसद्भावे तद्भावेऽप्यतदुद्भवादि"त्यादिना । किंच-श्लेष्मायुपचयापचयाभ्यां न रागादीनामुपचयापचयौ भवतः । नच यद्भेदाचस्य भेदो न भवति तत्तस्य कार्य युक्तमतिप्रसङ्गात् । तथा श्लेष्मणोऽपि तीब्रद्वेषो दृष्टो नतु तीव्ररागः, पित्तप्रकृतिरपि तीव्ररागो दृष्टो न तीब्रद्वेषादिरिति साङ्कर्य दृश्यते । न च यमन्तरेण यस्य भावः स तस्य हेतुर्युक्तः । यदवस्थो रागी दृष्टस्तदवस्थोऽपि द्वेषीत्यतोऽपि व्यभिचारान श्लेष्माविधर्मा रागादयः । तस्मादित्युपसंहारः । यदभ्यासपूर्वका इति । यस्मिन्नभ्यासो यदभ्यासः, स पूर्वकं कारणं येषामिति विग्रहः ॥ १९६० ॥ १९६१ ॥ इहत्येत्यादिना परकीयं चोद्यमाशङ्कते ।
इहत्याभ्यासपूर्वखे साध्ये दृष्टेष्टबाधनम् । भवान्तरीयहेतुत्वे साध्यशून्यं निदर्शनम् ॥ १९६२ ॥ अविशेषेण साध्ये तु हेतोरस्य विरुद्धता।
तथैवान्यभवाभ्यासहेतुत्वविनिवर्तनात् ॥ १९६३ ॥ तत्रेदं चोधम्-ऐहलौकिकाभ्यासपूर्वत्वं वाऽऽद्यभाविना साध्यं, पारलौकिकाभ्यासपूर्वत्वं वा, अविशेषेण वाऽभ्यासपूर्वत्वमात्रम् , तस्मिन्सिद्धे सामर्थ्यात्पारलौकिकाभ्यासपूर्वत्वमिष्टं सिद्धं भवतीति, पक्षत्रयम् । तत्र प्रथमे पक्षे दृष्टेष्टबाधनं नहाचमाविना रागादीनामिहत्याभ्यासपूर्वत्वं दृष्टं, नापि चेष्टं परलोकवादिनेति दृष्टेटयो धनम् । द्वितीयेऽपि पक्षे साध्यविकलो दृष्टान्तः, नहि कचिल्लोकायतस्य पारलौकिकाभ्यासपूर्वत्वसमन्वितो दृष्टान्तोऽस्ति । तृतीयेऽपि पक्षे विरुद्धता हेतोः, तथैव-दृष्टान्तवदेव, अन्यभवाभ्यासपूर्वत्वस्येष्टस्याभावसाधनात् ॥ १९६२ ।। ॥ १९६३ ॥ सामान्येनैवेत्यादिना प्रतिविधत्ते ।
सामान्येनैव साध्यत्वं नच हेतोविरुद्धता। नहि तेन विरोषोऽस्य येन तद्विनिवर्तयेत् ॥ १९६४ ॥
इति लोकायतपरीक्षा।