________________
५५४ • तुल्यमित्यादिना सुमतेविंगम्बरस्य मतेनाप्रतिवेदनावित्यस हेतोरसिद्धतामुदा. बयति ।
तुल्यं रूपं यदा ग्राषमतुल्यं नैव गृयते। अणूनां द्वयरूपत्वे तदा किं नोपपद्यते ॥ १९८० ॥ तत्सामान्यविशेषात्मरूपत्वात्सर्ववस्तुनः । तुल्यातुल्यखरूपत्वाद्विरूपा अणवः स्मृताः ॥ १९८१ ॥ समानं तत्र यद्रूपं तदक्षज्ञानगोचरम् । एकाकारमतो ज्ञानमणुष्वेवोपपद्यते ॥ १९८२ ॥ असमानं तु यद्रूपं योगिप्रत्यक्षमिष्यते ।
इति दुर्मतयः केचित्कल्पयन्ति समाकुलम् ॥ १९८३ ॥ - स घेवमाह-सामान्यविशेषात्मत्वात्सर्वपदार्थानां तुल्यातुल्यरूपेण द्विरूपाः परमाणवः । तत्र समानं यद्रूपं तदिन्द्रियैर्गीयते नासमानम् । ततश्चैकाकारं विज्ञानमणुध्वविरुद्धमिति प्रत्यक्षसिद्धाः परमाणव इति । समाकुलमिति । अप्रतिष्ठम् । एक. सापि रूपस्य प्रतिनिश्चितस्याभावात् ॥ १९८० ॥ १९८१ ॥ १९८२ ॥ १९८३॥ . ननु च द्विरूपं वस्त्विति निश्चितरूपमुक्तमेव, सत्यमुक्तमयुक्तं तूक्तमिति दर्शयन्नाह ।
द्वे हि रूपे कथं नाम युक्ते एकस्य वस्तुनः । द्वे तदा वस्तुनी प्रासे अपरस्पररूपतः॥ १९८४ ॥ परस्परात्मतायां तु तद्वैरूप्यं विरुध्यते।
विशेषधोपलभ्येत चक्षुरादिभिरिन्द्रियैः ॥ १९८५ ॥ तथाहि-द्वाभ्यां रूपाभ्यां वस्तुनोऽन्यान्यत्वाहे एव वस्तुनी प्राप्ते । रूपवयस्यैव केवलयापरापरस्य (स्थापरस्परख ?)भावात्ततश्च नैकस्य द्विरूपत्वमुक्तम् । एकस्माद्वा वस्तुनो रूपद्वयस्याव्यतिरेकादेकवस्तुखरूपवद्रूपद्वयस्य परस्परात्मकतैवेति कथमेकं द्विरूपं स्यात् । किञ्च-सामान्यरूपाव्यतिरेकाद्विशेषरूपस्योपलम्भप्रसङ्गः । ततश्रेयमसही व्यवस्था न प्राप्नोति-समान रूपमक्षज्ञानगोचरोऽसमानं तु योगिप्रत्यक्षमिष्यत इति ॥ १९८४ ॥ १९८५ ॥
कि -एकं द्विरूपमिति न केवलमेतत्परस्परव्याहतं इदं तु व्याहततरं यत्परस्परविरुद्धरूपद्वयात्मकमेकमिति दर्शयति-परसरेत्यादि ।