Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 802
________________ परिकासमेतः। विच्छिममित्यनेन ज्ञानाव्यतिरिक्तस्य प्रायस्य सिद्धिमादर्शयति, विस्पष्टमित्यनेन तु प्रत्यक्षताम् । एतदेव प्रसङ्गेन द्रढयन्नाह-तस्यैवमित्यादिना ॥ १९६५ ॥ ॥ १९६६॥ भासमान इत्यादिना प्रतिविधत्ते । भासमानः किमात्माऽयं बायोऽर्थः प्रतिभासते। परमाणुखभावः किं किं वाऽवयविलक्षणः ॥ १९६७ ॥ न तावत्परमाणूनामाकारः प्रतिवेद्यते। निरंशानेकमूर्ताभ(नां) प्रत्ययाप्रतिवेदनात् ॥ १९६८ ॥ व्यपेतभागभेदा हि भासेरन्परमाणवः । नान्यथाऽध्यक्षता तेषामात्माकारासमर्पणात् ॥ १९६९ ॥ तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽमिनो भवेत् , एको वा तैरारब्धोऽवयवी, स्थूलोऽनारब्धो वेति पक्षाः । तत्र न तावदाद्यः, निरंशानामनेकेषामणूनां मूर्तानां प्राहकस्य प्रत्ययस्याप्रतिवेदनात् । नित्यं स्थूलाकारस्यैव ज्ञानस्यानुभूयमानत्वात् । प्रत्यये तेषामप्रतिवेदनादिति सप्तम्यन्तस्य पाठोऽसमसः। प्रयोगःयः प्रत्यक्षामिमते प्रत्यये न प्रतिभासते खेनाकारण, न स प्रत्यक्षत्वेन प्रहीतव्यः, यथा गगननलिनम् , न प्रतिभासते च प्रत्यक्षामिमते प्रत्यये स्थूलाकारोपपाहिणि परमाणुरनेको मूर्त इति व्यापकानुपलब्धिः । आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य व्याप्तत्वात् । तामेव व्याप्ति प्रतिपादयन्नाह-व्यपेतेत्यादि । १९६७ ॥ १९६८॥ ॥ १९६९ ।। __ अथापि स्यात्समुदिता एवोत्पद्यन्ते विनश्यन्ति चेति सिद्धान्तानैकैकपरमाणुप्रतिभास इति, यथोक्तं भदन्तशुभगुप्तेन-"प्रत्येकपरमाणूनां खातब्येणास्ति सम्भवः । अतोऽपि परमाणूनामेकैकाप्रतिभासनम् ॥” इति । तदेतदनुत्तरमिति दर्शयन्नाहसाहित्येनापीति। साहित्येनापि जातास्ते खरूपेणैव भासिनः। त्यजन्त्यनंशरूपत्वं न चेत्ता(नच ता?)सुदशाखमी॥१९७०॥ लब्धापचयपर्यन्तं रूपं तेषां समस्ति चेत् । कथं नाम न ते मूर्ती भवेयुर्वेदनादिवत् ॥१९७१ ॥ तासु दशास्विति । संहितावस्थासु । किंच-यदि निरंशाः परमाणवो न तर्हि

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832