Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 801
________________ ५५. तत्त्वसङ्ग्रहः। तृतीय एवात्र पक्षोऽभिप्रेतः, न च हेतोविरुद्धता कस्मात् । नहि तेनान्यभवाभ्यासपूर्वत्वेनास्य रागादित्वस्य कश्चिद्विरोधोऽस्ति । येन तत्पारलौकिकाभ्यासपू. वत्वं निवर्चयेत् । अपिच-अयं लोकः परलोक इत्यवस्थाभेदकृतव्यवस्थामात्रमेतत् । बालयौवनादिभेदवत् । अनादित्वं त्वनेन प्रकारेण साध्यत इति नानामिनिवेष्टव्यम्। (प्रतिवादिसन्निभमित्येतत्) (?) ॥ १९६४ ॥ इति लोकायतपरीक्षा। प्रतिविवादिसनिभमित्येतत् । प्रतीत्यसमुत्पादविशेषणसमर्थनार्थमिदानीं विज्ञानवादीदमुपक्षिपति । तत्र विज्ञप्तिमात्रमेवेदं त्रैधातुकं, तब विज्ञानं प्रतिसत्त्वसन्तानमेदादनन्तमविशुद्धं चानधिगततत्त्वानां विशुद्धं च प्रहीणाचरणानां प्रतिक्षणविसरारु च सर्वप्राणभृतामोजायते, नत्वेकमेवाविकारि यथोपनिषद्वादिनामिति विज्ञानवादिनां बौद्धानां मतम् । तत्राभ्यां प्रकाराभ्यां विज्ञप्तिमात्रताभीष्टा, बाह्यस्य पृथिव्यादिखभावस्य ग्राहस्याभावे प्राहकत्वस्याप्यभावात् । सत्यपि वा सन्तानान्तरे प्रायप्राहकलक्षणवैधुर्यात् । तत्र प्रयोगः-यद्यज्ञानं तत्तत् प्राद्यप्राहकत्वद्वयरहितं ज्ञानत्वात् , प्रतिबिम्बज्ञानवत् , ज्ञानं चेदं स्वस्थनेत्रादिज्ञानं विवादास्पदीभूतमिति स्वभावहेतुः । नचाव्याप्तिरस्य हेतोर्मन्तव्या । तथाहि न तावत्पृथिव्यादिबाह्योऽर्थोऽस्य प्रायो विद्यते, तस्यैकानेकखमावशून्यत्वात् । प्रयोगः यदेकानेकखभावं न भवति न तत्सत्त्वेन प्राचं प्रेक्षावता, यथा व्योमोत्पलम् , एकानेकखभावरहिताश्च परामिमताः पृथिव्यादय इति व्यापकानुपलब्धिः । तृतीयराश्यन्तराभावेनैकत्वानेकत्वाभ्यां सत्त्वस्य व्याप्तत्वाव्याप्यव्यापकभावानुपपत्तिर्विपर्यये बाधकं प्रमाणमिति नानैकान्तिकताऽनन्तरस्य हेतोः । नापि विरुद्धता, सपक्षे भावात् । अत्रास हेतोरसिद्धतामुद्रावयन् , यथोक्तम् 'भूतान्येव न सन्तीति न्यायोऽयं पर इष्यता मिति -असाच प्रतिज्ञायाः प्रत्यक्षादिविरोधमादर्शयन् , प्रथमस्य हेतोरव्याप्तिमेव प्रतिपादयितुं पर आह-यदि ज्ञानातिरेकेणेत्यादि । यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम् । तत्किमेतबु विच्छिन्नं विस्पष्टमवभासते ॥ १९६५ ॥ तस्यैवं प्रतिभासेऽपि नास्तितोपगमे सति । चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत् ॥ १९६६ ॥

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832