Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 799
________________ तत्त्वसाहः। पूर्वरागावाहितवासनापरिपाको भवति ततो रागादयः बैशाः प्रवर्तन्त इति न साक्षाद्विषयाः कारणम् । स्यादेतत्-खराद्धान्तोपवर्णनमात्रमेव केवलम् , नत्वत्र काधिपुक्तिरित्याह-एक इत्यादि । एक इति । एकाकारः । तत्रेति । विषये । तस्येति । विषयस्य । बोधवविति । नीलादिप्राहकाकारवत् । नचैकाकारस्तत्र लेशः प्रवर्तते । । तथाहि एकस्मिन्त्रीरूपे कस्यचिद्रागः कस्यचिद्वेषः कस्यचिदीयेत्यनेकाकारस्य प्रवृत्तिदृश्यते ॥ १९५४ ॥ १९५५ ॥ १९५६ ।। खादेतन्न पूर्वाभ्यासादिह जन्मन्याधरागादयः । किं तर्हि ? । अन्येषां मैथुनादिसमाचारदर्शनात्परोपदेशाद्वेत्याह-अन्यवृत्त्युपलम्भेनेत्यादि । अन्यवृत्त्युपलम्भेन परेभ्यः श्रवणेन वा। न च तेषामियं वृत्तिय॑भिचारोपलम्भनात् ॥ १९५७ ॥ अन्येषां वृत्तिचरितमिति यावत् ॥ १९५७ ॥ अदृष्टेत्यादिना तमेव व्यमिचारं दर्शयति । अदृष्टाश्रुतवृत्तान्ता वराहहरिणादयः। सभागगतिसंपर्के प्रयान्त्येव हि विक्रियाम् ॥ १९५८॥ वृत्तान्तो मैथुनादिसमुदाचारः । सभागा सदृशी गतिर्यासां वराहीप्रभृतीनां ताखयोच्यन्ते । तामिः सह संपर्कः समवधानम् । विक्रियेति । विप्लुतिः । मैथुनसमुदाचार इति यावत् ॥ १९५८ ॥ संसारानुचिता धर्माः प्रज्ञाशीलकृपादयः। खरसेनैव वर्तन्ते तथैव न मदादिवत् ॥ १९५९ ॥ अवश्यं चैतदवसेयमभ्यासबलादेव रागादीनां स्वरसप्रवृत्तिरिति । तथाहिये प्रज्ञाशीलादयः संसारानुचिताः संसारे नाभ्यस्ताः ते स्वरसेनायनेन न वर्तन्ते । मदादिवदिति वैधHदृष्टान्तः । मदो-दर्पः । अन्यथा मदादिवत्प्रज्ञादीनामपि स्वरसेन प्रवृत्तिः सात् ॥ १९५९ ॥ केचिदाहुः-लेष्मणः सकाशाद्रागः पिचापो वातान्मोह इति । तत्राहबलासावीत्यादि। - बलासादिप्रभावेण मच तेषां समुपः। पूर्ववत्यभिचारस सर्वचाम्प्युपलम्मतः ॥ १९५०॥

Loading...

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832