Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 798
________________ पखिकासमेतः। अपरलौकिकाभ्यासपूर्वत्वसाधनाद्विरुद्धो हेतुरिति चेन्न । इहत्याभ्यासरहिवास्ते ये प्रथमभाविनः पटवो रागादय इत्ययुक्तमपरलौकिकाभ्यासपूर्वत्वसाधनम् । न चाहेतुकं युक्तम् , नित्यं सत्त्वादिप्रसङ्गात् । तस्माद्यदि जन्मान्तरं (न) भवेतेषाम्-रागादीनां . पटूनां, जन्मन:-उत्पत्तेः, को हेतुः स्यात् । तस्माजन्मान्तरीय एवाभ्यासो हेतुरिति सिद्धः परलोकः । नचालम्बनं कारणम् , आलम्बनस्य भावेऽपि रागादीनां कदाचिदशुभादिप्रतिसङ्ख्यानसद्भावे सत्यनुत्पत्तेः । अशुभाघालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्रतिसङ्ख्यानम् । असत्यप्यालम्बने रागादीनामुत्पत्तिदर्शनान्न युक्त आलम्बनवशात्तद्भावः । तथाहि-अतीतानागतेऽपि विषये सङ्कल्पवशादमिवृद्धसुखादिविपर्यासस्य पुंसः प्रतिसङ्ख्याननिवृत्तौ तेषां रागादीनां प्रबलत्वं दृश्यते । नहि यद्भावाभावयोर्यस्य भावाभावाविपर्ययस्तत्तस्य कारणं युक्तमतिप्रसङ्गात् । इतोऽपि नालम्बनवशादावादीनां प्रवृत्तिः । तथाहि-यदि यथालम्बनमेव प्रवर्तेरनेवमालम्बनवशात्प्रवृत्ताः स्युर्यथा नीलादिज्ञानं न चैवं प्रवर्त्तन्ते । किं तर्हि आत्मीयनित्यसुखाद्याकाराननुभूतानेवारोपयन्तोऽङ्गनादिषु प्रवर्त्तन्ते । न च शुभादिरूपा विषयाः । न च यद्यदाकारशून्यं तत्तस्यालम्बनं युक्तमतिप्रसङ्गात् । तत्-तस्मादारोपितविषयत्वेन निरालम्बना रागादयः । ततश्च सिद्धमाद्याः प्रथमभाविनोऽपीह जन्मनि ये रागादयस्ते सजातीयाभ्यासवशात्प्रवर्तन्त इति ॥ १९४८ ॥ १९४९॥ ॥ १९५० ॥ १९५१ ॥ १९५२ ॥ १९५३ ॥ यदि तर्हि विषया न कारणं कथं विषयोपनिपाते रागादय उत्पधमाना रश्यन्त इत्याह-विषयोपनिपात इत्यादि । विषयोपनिपाते तु मुखदुःखादिसम्भवाः । तस्मात्समानजातीयवासनापरिपाकजाः ॥ १९५४ ॥ रागद्वेषादयः क्लेशाः प्रतिसयानविद्विषाम् । अयोनिशोनम(सोमन)स्कारविधेयानां यथावलम्१९५५५ साक्षातु विषया नैव रागद्वेषादिहेतवः।। एका क्लेशो हि तत्र स्यात्सर्वेषां तस्य पोषवत् ॥ १९५६ ॥ एष हि क्रमः-विषयोपनिपाते सतीन्द्रियजं सुखमुत्पयते । तमाच सुखानतिमझानवैकल्ये सत्यात्मादिविपर्यासलक्षणाबोनिशो(सौमनस्कारे सिवानां

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832