________________
पखिकासमेतः। अपरलौकिकाभ्यासपूर्वत्वसाधनाद्विरुद्धो हेतुरिति चेन्न । इहत्याभ्यासरहिवास्ते ये प्रथमभाविनः पटवो रागादय इत्ययुक्तमपरलौकिकाभ्यासपूर्वत्वसाधनम् । न चाहेतुकं युक्तम् , नित्यं सत्त्वादिप्रसङ्गात् । तस्माद्यदि जन्मान्तरं (न) भवेतेषाम्-रागादीनां . पटूनां, जन्मन:-उत्पत्तेः, को हेतुः स्यात् । तस्माजन्मान्तरीय एवाभ्यासो हेतुरिति सिद्धः परलोकः । नचालम्बनं कारणम् , आलम्बनस्य भावेऽपि रागादीनां कदाचिदशुभादिप्रतिसङ्ख्यानसद्भावे सत्यनुत्पत्तेः । अशुभाघालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्रतिसङ्ख्यानम् । असत्यप्यालम्बने रागादीनामुत्पत्तिदर्शनान्न युक्त आलम्बनवशात्तद्भावः । तथाहि-अतीतानागतेऽपि विषये सङ्कल्पवशादमिवृद्धसुखादिविपर्यासस्य पुंसः प्रतिसङ्ख्याननिवृत्तौ तेषां रागादीनां प्रबलत्वं दृश्यते । नहि यद्भावाभावयोर्यस्य भावाभावाविपर्ययस्तत्तस्य कारणं युक्तमतिप्रसङ्गात् । इतोऽपि नालम्बनवशादावादीनां प्रवृत्तिः । तथाहि-यदि यथालम्बनमेव प्रवर्तेरनेवमालम्बनवशात्प्रवृत्ताः स्युर्यथा नीलादिज्ञानं न चैवं प्रवर्त्तन्ते । किं तर्हि आत्मीयनित्यसुखाद्याकाराननुभूतानेवारोपयन्तोऽङ्गनादिषु प्रवर्त्तन्ते । न च शुभादिरूपा विषयाः । न च यद्यदाकारशून्यं तत्तस्यालम्बनं युक्तमतिप्रसङ्गात् । तत्-तस्मादारोपितविषयत्वेन निरालम्बना रागादयः । ततश्च सिद्धमाद्याः प्रथमभाविनोऽपीह जन्मनि ये रागादयस्ते सजातीयाभ्यासवशात्प्रवर्तन्त इति ॥ १९४८ ॥ १९४९॥ ॥ १९५० ॥ १९५१ ॥ १९५२ ॥ १९५३ ॥
यदि तर्हि विषया न कारणं कथं विषयोपनिपाते रागादय उत्पधमाना रश्यन्त इत्याह-विषयोपनिपात इत्यादि ।
विषयोपनिपाते तु मुखदुःखादिसम्भवाः । तस्मात्समानजातीयवासनापरिपाकजाः ॥ १९५४ ॥ रागद्वेषादयः क्लेशाः प्रतिसयानविद्विषाम् । अयोनिशोनम(सोमन)स्कारविधेयानां यथावलम्१९५५५ साक्षातु विषया नैव रागद्वेषादिहेतवः।।
एका क्लेशो हि तत्र स्यात्सर्वेषां तस्य पोषवत् ॥ १९५६ ॥ एष हि क्रमः-विषयोपनिपाते सतीन्द्रियजं सुखमुत्पयते । तमाच सुखानतिमझानवैकल्ये सत्यात्मादिविपर्यासलक्षणाबोनिशो(सौमनस्कारे सिवानां