________________
तत्वमहा। वासनापरिपाकस्याकुलत्वम् । यथानुभूतप्रतिनियतदेशकालखमावाविभेदरूपेनाप्रवृत्तिः । तत्र यदुक्तं पार्षाकेण जातिस्मरणमसिद्धम् । एकमामागतानां सर्वेषां स्मरणादिति । तदनेन प्रतिक्षिप्तं भवति । तथाहि-एकमामागवा अपि सर्वे न स्मरन्ति । यतस्तत्र केचन तेषां मध्ये ये मन्दमतयस्ते मुषितस्मृतयो भवन्त्येव । आसामिति । वाचाम् ॥ १९४६ ॥ स्वल्पीयानपीत्यादिना प्रसङ्गविपर्यये हेतोः पक्षकदेशासिद्धतामाह
खल्पीयानपि येषां तु नोपघातो महात्मनाम् ।
भूयन्ते विस्फुटा वाचस्तेषां सा च स्मृतिः स्फुटा॥१९४७॥ महात्मनामिति । पुण्यवताम् ॥ १९४७ ॥ । पुनरपि परलोकसिद्धावुपपत्त्यन्तरमाह-रागद्वेषादयश्चेत्यादि ।
रागद्वेषादयश्चामी पटवोऽभ्यासयोगतः। अन्वयव्यतिरेकाभ्यां भवन्तः परिनिधिताः ॥ १९४८ ॥ इहत्याभ्यासरहितास्ते ये प्रथमभाविनः । को हेतुर्जन्मनस्तेषां यदि न स्याद्भवान्तरम् ॥ १९४९ ॥ न पालम्बनसानिध्यात्तेषां जन्मोपपद्यते । प्रतिसझानसद्भावे तावेऽप्यतदुवात् ॥ १९५० ।। प्रतिसवानिवृत्तौ च तेषां प्रावल्यदर्शनात् । नष्टाजातेपि विषये विपर्यासाभिवृद्धितः(नः१) ॥१९५१ ॥ शुभात्मीयस्थिरादींश्च समारोप्याङ्गनादिषु । रागादयः प्रवर्तन्ते तद्रूपा विषया नच ॥ १९५२ ॥ तदनालम्बना एव सहशाभ्यासशक्तितः।
इहत्या अपि वर्तन्ते रागादित्वाचथोत्तरे ॥ १९५३ ॥ प्रयोगः-रागद्वेषामदमानादीनां तथा प्रज्ञाकरुणामैत्र्यादीनां च यत्पाट सदभ्यासपूर्वकम् , ययेहैव जन्मनि पटुमन्दययोक्तगुणस्य पुरुषस्याभ्यासक्शादृष्टम् । अस्ति देहादावत्र जन्मनि तेषु तेष्वदृष्टैहलौकिकाभ्यासस्यापि कस्यचित्पुरुषस्य तत्पाटवमिति कार्वहेतुः । अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य निश्चितत्वादिति नासिद्धो हेतुः । अतएवाह-अन्वयव्यतिरेकाभ्यां भवन्तः परिनिश्चिता इति ।