________________
पषिकासमेतः। तनामेत्यादिना यथोकं प्रमाणार्थमुपसंहरति
तनामसंस्तवाभ्यासवासनावलभाव्यसौ।
तेषां विकल्परूपत्वाद्विकल्प इव सम्मति ॥ १९४३ ॥ तदिति । तस्मादित्यर्थः ॥ १९४३ ॥ यन्नामेत्यादिना प्रमाणफलं दर्शयति
यत्रामसंस्तवाभ्यासवासनापरिपाकजः।
विकल्पो वर्तते तेषां तत्प्रसिद्धं भवान्तरम् ॥ १९४४ ॥ नामः-शब्दस्य, संस्तवः-परिचयोऽनुभव इति यावत्, तस्याभ्यास:पुनरुत्पादः । यस्मिन्मवे नामसंभवाभ्यासो यत्रामसंभवाभ्यास इति, सप्तमीति योगविभागात्समासः । तेनाहिता या वासना तस्याः परिपाकः स्वानुरूपः कार्योत्पादने वृचिलाभः, ततो जात इति व्युत्पत्तिक्रमः । तेषामिति । सद्योजातानाम्
॥ १९४४॥ । नामाभ्यासेत्यादिना परकीयं प्रसङ्गसाधनमाशङ्कते
नामाभ्यासबलादेव यदि तेषां प्रवर्तते ।
तत्किं न विस्फुटा वाचः स्मृतिर्वा वाग्मिनामिव॥१९४५॥ यदि पूर्वसङ्केताभ्यासाद्विकल्पस्य प्रवृत्तिस्तदा बालदारकस्य पूर्वसङ्केतानुस्मरणप्रसङ्गः । नमभ्यासानुवृत्तिः स्मरणमन्तरेण युक्ता । वाग्मिनामिव विस्पष्टवाक्प्रवृ. तिप्रसङ्गश्च । ततश्च सङ्केतकरणानर्थक्यं स्यात् । न चैवं भवति । तस्मात्स्मरणाभावात् , विस्पष्टवाचोऽप्रवृत्तेश्च, पूर्वाभ्यासपूर्वत्वं विरुद्धमिति प्रसङ्गविपर्ययेण धर्मखरूपनिराकरणमुखेन प्रतिज्ञादोषमाह ॥ १९४५ ॥ पटीयसेत्यादिना प्रसङ्गविपर्यये च हेतोरनैकान्तिकत्वमाह
पटीयसोपघातेन परिपाकाकुलत्वतः।
न स्यादासामियं वृत्तिः सन्निपातदशाखिव ॥ १९४६ ॥ नहि पूर्वाभ्यासः सर्वदा स्मरणादिना व्याप्तो येन स्मरणादिकं प्रवर्चयेत् । तमिवृत्तौ वा निवर्चेत । यावता पूर्वाभ्यासानुवृत्तिश्च भवेन च स्मरणम् , यथा सनिपातावस्थायाम् । तथा खप्नेऽपि पूर्वाभ्यासानुवृत्तिर्भवेन च स्मरणम् । समिपावनहणमुपलक्षणम् । पटीयसेति । गर्भपरिवासात् । परिपाकाकुलत्वत इति ।