________________
तत्त्वसङ्घन्दः ।
रुदितस्तनपानादिकार्येणासौ च गम्यते ।
स च सर्वो विकल्पात्मा स च नामानुषङ्गवान् ॥ १९४१ ॥ तद्विशेषानुकारत इति । तस्य जन्मान्तरवर्त्तिनो ज्ञानस्य यो विशेषस्तमनुकुर्वन्त्यैहिकानि ज्ञानानि । तथा चोक्तम् — “अभ्यासयोगेन शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुंसाम् । यदप्रयत्नेन विनोपदेशाज्जन्मान्तरे स्वप्न इवाचरन्ति ॥” तत्र यदुक्तं चार्वाकेण —— इह लोकपरलोकशरीरयोर्भिन्नत्वात्तद्गतयोरपि चित्तयोर्नैकः सन्तान इत्यादि । गर्भादौ प्रथमं विज्ञानं विवादगोचरापन्नैकसन्तानिकं न भवति मिन्नशरीरत्वान्महिषवराहादिविज्ञानवदिति । तदनेन प्रतिक्षिप्तं भवति । अपिचइतोऽपि परलोकः सिद्धः । तथाहि —यो यो विकल्पः स शब्दानुभवाभ्यासपूर्वकः, विकल्पत्वात्, यौवनाद्यवस्थाभाविविकल्पवत् । विकल्पश्चायं सद्योजातानां स्तनपानाद्यभिलाषादिविकल्प इति स्वभावहेतुः । नचाश्रयासिद्धो हेतुः । यतो रुदितस्तनपानादिकार्येणासौ सद्योजातानां स्तनपानाद्यभिलाषादिर्धर्मी सिद्धः । हि श (र ?) क्तिर्विद्वेषादिरूपेणाविकल्पयतो रुदितस्तनपानादिसम्भवो युक्तः । नापि स्वरूपासिद्ध इति प्रतिपादयति स च सर्वो विकल्पात्मेति । सः - स्तनपानाभिलाषादिः । सर्वो विकल्पात्मा - विकल्पस्वभावः । प्रार्थनाद्याकारतयाऽनुभूयमानत्वात् । नाप्यनैकान्तिक इति दर्शयन्नाह - स च नामानुषङ्गवानिति । स इति । विकल्पः । यस्मात्सर्वो विकल्पः शब्दोल्लेखन प्रवृत्तेर्नामानुषक्तः । स च नामानुषक्नो विकल्पस्य सङ्केताभ्यासमन्तरेण न सम्भवतीति पूर्व विस्तरेण प्रतिपादितमस्माभिः । १९३९ ।। १९४० ।। १९४१ ॥
1
अथापि स्याद्भवतु नाम नामानुषङ्गोऽभ्यासपूर्वकस्तथाऽप्यसौ नेष्टप्रसाधनः । किं तर्हि ? | ऐहलौकिकाभ्यासपूर्वत्वमेव विपरीतं साधयतीत्याह-न नामरूपमित्यादि । न नामरूपमभ्यस्तमस्मिन्जन्मनि विद्यते ।
तेषां चान्यभवाभावे तदुच्छेदः प्रसज्यते ॥। १९४२ ॥ एतदुक्तं भवति । ऐहिलौकिकाभ्यासः सद्योजातानां प्रमाणप्रतीतिबाधितः । नच बाध्यमानप्रतिज्ञार्थस्य हेतोर्विरुद्धत्वं युक्तम्, विरुद्धोऽसति बाधन इति न्यायात् । नामरूपमिति । नान्नो रूपम् - बाघ (वाच ?) कः स्वभावो, बुद्धिपरिवर्त्यपि बाह्येषु शब्देष्वभ्यस्तः । तेषां चेति । सद्योजातानां । तदुच्छेद इति । तेषामभिलाषादी - नामुच्छेदस्तदुच्छेदः || १९४२ ॥
I
•