________________
पविकासमेतः। तस्य चात्र व्यापकस्याभाव इति सिद्धा देहानाभिता बुद्धिः । तत्तलादेहनिवृत्ता. बपि न निवर्तयिष्यत इत्यविरोधः। यो हि यदाश्रितो न भवति तमिवृत्तौ न नियमेन तस्य निवृत्तिः । तद्यथा गोनिवृत्तौ गवयस्य न नियमेन निवृत्तिः । नच देहो मनो' मतेराश्रय इति व्यापकानुपलब्धिः ॥ १९३५ ॥ १९३६ ॥ यदुक्तं मरणान्तरोद्भूतदेहान्तरेत्यादिना श्लोकद्वयेन तत्राह-केवलापीत्यादि ।
केवलाऽपि मनोबुद्धिर्यदेवमविरोधिनी। नातोऽन्यदेहसदावसिद्धये यनिनो वयम् ॥ १९३७॥ नच शक्यनिषेधोसावदृष्टावपि संश्रयात् ।
स्थादेषा मन्दनेत्रस्य खच्छ(ल्प?)धूमाघदृष्टिवत् ॥१९३८॥ अयमत्रामिप्रायः-परलोकोऽत्र साधयितुमिष्टः, स च कथं सिद्ध्यति, यदि बुद्धिरनाद्यनन्ता सिद्धयेत् । अस्या एवावस्थाविशेषः परलोकप्रज्ञप्तौ । न तु देहे आह. (रू?)प्यधातौ, देहाभावेऽपि परलोकाभ्युपगमात् । सा चेचित्तसन्ततिरनायनन्ता सिद्धा सिद्धो नः परलोक इति नान्यदेहसिद्धये यत्नः क्रियतेऽस्मामिनिष्फलत्वात् । नच तस्यादृष्टिमात्रेण निषेधः शक्यते कर्तुम् । तथा ोषाऽदृष्टिर्जातिविशेषे भावनादिवैकल्यान्मन्दनेत्रस्य भवतः सत्यपि तस्मिन्देहे स्यादपि, ननु बमोऽ(तनुधूमा ?). दर्शनवदिति नानुपलब्धिमात्रेण प्रतिषेधः सिद्ध्यति । तथाहि सजातिशुद्धदिव्याक्षदृश्योत्तराभवो वर्ण्यते । अत एव सायपरिकल्पिवातिवाहिकशरीरस्याप्यप्रतिक्षेपः । पूर्वकालभवस्यापि देशविप्रकर्षानोपलम्भः स्यात् , दूरतरदेशोत्पत्तेः, स्वभावविप्रकर्षाद्वा, पिशाचादिदेहवत् । अविप्रकर्षेऽप्यग्दिर्शिना सोऽयं प्राणी पतङ्गाद्यात्मतां गत इति निश्चेतुमशक्यत्वात् । अचिन्त्यशक्तिभैषज्योपयोगेन परावृत्तदेहवत् ॥ १९३७ ॥ १९३८॥
कथं तर्हि मिन्नाश्रयाश्रयाणि ज्ञानान्येकसन्तानसम्बद्धान्युच्यन्त इत्याह-भिन्नदेहाश्रितत्वेऽपीति।
भिन्नदेहश्रितत्वेऽपि तद्विशेषानुकारतः । एकसन्ततिसम्बद्धं प्राच्यज्ञानं प्रबन्धवत् ॥ १९३९ ॥ अपि च स्तनपानादावभिलाषे प्रवर्तते । उद्वेग उपधाते च सयोजन्मभृतामपि ॥ १९४० ॥