________________
सत्त्वसङ्कहा। तदव्यापारभावेऽपीति । तयोरिन्द्रियार्थयोरव्यापारेऽपीति यावत् । नहि यद. व्यापारेऽपि यल भावस्तत्तय कारणं युक्तमतिप्रसङ्गात् ॥ १९३१ ॥
स्थादेतवतु व्योमोत्पलादिविकल्प इन्द्रियार्थानपेक्षस्तदभावेऽपि भावात् । यस्तु चक्षुपि प्रणिहिते नीलादौ पुरोवर्तिनि विषये नीलमेतदिति विकल्पः प्रवर्तते । स कथमिन्द्रियानपेक्षो येन पक्षकदेशेऽसिद्धो हेतुर्न भवेदित्याह-तयोरित्यादि ।
तयोर्भावेप्यतीतादिविकल्पो यः प्रवर्तते । असदर्थोपरागेण तुल्य एवावसीयते ॥ १९३२ ॥ शब्दार्थप्रतिभासिवाद्वस्तुरूपं न भासते।
विकल्पेष्विति सर्व हि विस्तरेणोपपादितम् ॥ १९३३ ॥ तयोरिति । इन्द्रियार्थयोः । असदर्थः शून्य उपरागो नि सो यस्योत्प्रेक्षितादिविकल्पस्य सोऽसदर्थोपरागोव्योमादिविकल्पः । तेन तुल्योऽयमपि निर्विषय इत्यर्थः । कथम् । सर्वो हि विकल्पः शब्दोल्लेखेन प्रवृत्तेः शब्दार्थावभासी, यश्च शब्दार्थावभासी न तत्र वस्तुरूपं भासते वस्तुरूपे शब्दस्याप्रवृत्तेः, तत्र तस्यासङ्केतितत्वादिति विस्तरेण शब्दार्थपरीक्षायां प्रतिपादितम् । सपक्षे सद्भावान्न विरुद्धो हेतुः, नाप्यनैकान्तिकः, खोपादानानुद्भवत्वे निर्हेतुकत्वप्रसङ्गात् ॥१९३२॥ ॥ १९३३ ॥ कायाश्रितत्वान्न निर्हेतुकत्वमिति चेदित्याशङ्कयाह-प्रसुतिकेत्यादि ।
प्रसुतिकाद्यवस्थासु शरीरविकृतावपि ।
नान्यथात्वं मनोबुद्धेस्तस्मान्नेयं तदाश्रिता ॥ १९३४ ॥ प्रसुप्तिकादिरोगोपघातेन हि देहविकारोऽपि मनोमतेरविकारादियं मनोमतिर्न देहाश्रिता, यद्विकारेण नियमात्साक्षाद्यन्न विक्रियते न तत्तदाश्रितं, यथा गोविकारेणाविक्रियमाणोऽश्वो न च देहस्य विकारेण नियमात्साक्षाद्विक्रियते मनोबुद्धिः प्रसुप्तिकावस्थायामिति व्यापकानुपलब्धिः ॥ १९३४ ॥ स्वल्पीयसीत्याविना तदाश्रितत्वं साक्षात्तविकारविकारित्वेन व्याप्तमिति दर्शयति।
खल्पीयस्यपि नेत्रादेर्विकारे तिमिरादिके। चक्षुरायाश्रिता बुद्धिर्विकृतैव हि जायते ॥ १९३५ ।। तदेहत्य विनाशेपि मनोधीरतदाया। सोपादानबलेनेव वर्तमानाविरोधिनी ॥ १९३६ ॥