________________
पत्रिकासमेतः। प्रतिबुद्धादेः पुरुषस्य स्मरणं न भवेत् । आदिशब्देन विगतमूर्छस विगतमदस्येति परिप्रहः । तदेतदस्मरणमकारणमनुभूताभावसिद्धये । यदि अनुभूत इत्येतावन्मात्रेगैव स्मरणं स्यात्स्यादेतत् , यावता सत्यप्यनुभवे पाटवाभ्यासार्थित्वादिवैकल्यात्म'रणं न भवति । यथा सद्योजाताद्यवस्थायामनुभूतस्यापि चित्तस्य ॥ १९२३ ॥ ॥ १९२४ ॥ १९२५ ॥ १९२६ ॥ १९२७ ॥
अस्तित्वेऽपि भवतां तर्हि किं प्रमाणं यदि स्मरणाप्रवृत्तावपि सन्देह इति प्रति. चोदयन्नाह यद्येवमित्यादि ।
यद्येवं कथमस्तित्वमस्यासु व्यवसीयते । पूर्वोपवर्णितादेव हेतोरित्यवगम्यते ॥ १९२८ ॥ खममूर्छाद्यवस्थासु चित्तं च यदि नेष्यते । मृतिः स्यात्तत्र चोत्पत्ती मरणाभाव एव वा ॥ १९२९ ॥ खतना मानसी बुद्धिश्चक्षुराद्यनपेक्षणात् ।
खोपादानबलेनैव खमादाविव वर्तते ॥ १९३० ॥ अस्येति । विज्ञानस्य । आस्विति । स्वापाद्यवस्थासु । तत्र पूर्वोपवर्णितो हेतुः -प्रबुद्धादेः पुरुषस्यादिविज्ञानं स्वोपादानबलोद्भवं विज्ञानत्वादाभोगायनन्तरभाविस्मार्तादिविज्ञानवत् । नचायमनैकान्तिको हेतुः, पूर्व कारणान्तरनिषेधेन प्रतिबन्धस्य साधितत्वात् । किंच-यदि स्वापाद्यवस्थायां चित्तं न भवेत्तदा मरणमेव स्यात् । अथ तत्र तथाभूते निर्मूलमपगतविज्ञाने देहे पुनरुत्पत्तिरिष्यते विज्ञानस्य तवा तत्रोत्पत्ताविष्यमाणायां मरणाभावः प्राप्नोति, मृतस्यापि पुनर्विज्ञानोत्पत्तिप्रसमात्सुप्तप्रबुद्धवत् । मनोबुद्धेरेव जन्मान्तरप्रतिसन्धाने सामर्थ्यात् । तथाचोक्तम्"छेदसन्धानवैराग्यहानिम् पत्तयः । मनोविज्ञान एवेष्टा” इति । अतो मनोबुद्धिः पूर्वबुद्धिमात्राश्रयेति प्रतिपादयन्नाह स्वतन्त्रेत्यादि । वातव्येऽनपेक्ष्यत्वं हेतुः । सर्वदेवेयं मनोबुद्धिः खोपादानकारणमात्रभाविनी, खोपादानव्यतिरिक्तचक्षुरादिकारणान्तरानपेक्षणात् , स्वप्नावस्थावत् ॥ १९२८ ॥ १९२९ ॥ १९३०॥ तथाहीत्यनेन हेतोरसिद्धतां परिहरति ।
तथाहि न विकल्पानामिन्द्रियार्थव्यपेक्षिता। तदव्यापारभावेऽपि भावायोमोपलादिषु ॥ १९३१ ॥