________________
ABO
तन्त्वसङ्ग्रहः ।
इन्द्रियार्थबलोद्भूतं सर्व विज्ञानमित्यदः ।
साहसं वेद्यते यस्मात्स्वमादावन्यथाऽपि तत् ॥ १९२१ ॥ रूपमर्थगतेरन्यदप्यस्य व्यवसीयते । मूर्छादावपि तेनास्य सद्भाव उपपद्यते ॥। १९२२ ॥
यदि सर्वमेव ज्ञानमिन्द्रियार्थबलेनैव ज्ञायते तदा साहसं भवेत् यावता स्वप्नाद्यवस्थायां नीलादिप्रतिभासं मनोविज्ञानमसत्यपि चक्षुरादीन्द्रिये विनाऽपि रूपादिनार्थेन संवेद्यते । नचापि तस्य तदानीं कायेन्द्रियमाश्रय इति शक्यं वक्तुम्, नीलादिप्रतिभासत्वात् । कायविज्ञानस्य च स्प्रष्टव्यविषयत्वात् । तस्मादर्थावगतिरूपं सर्व विज्ञानमित्ययुक्तम् । तेन मूर्छादावपि विज्ञानसद्भावो न विरुद्ध्यते ॥ १९२० ॥ ॥। १९२१ ।। १९२२ ॥
अथापि स्याच्छतिरूपेणावस्थानं विज्ञानस्याविरुद्धं स्वरूपेण तु विरुद्धमित्याह - न चापीति ।
न चापि शक्तिरूपेण तथा धीरवतिष्ठते ।
स्वरूपेणैव बुद्धीनां व्यवस्थानं तदा मतम् ॥। १९२३ ।। सुप्तमूर्च्छायवस्थासु चेतो नेति च ते कुतः ।
निश्चयो वेदनाभावादिति चेत्स कुतो गतः ॥ १९२४ ॥ यदीत्थं भवतस्तासु निश्वयः संप्रवर्त्तते ।
·
न वेद्मि चित्तमित्येवं सति सिद्धा सचित्तता ॥ १९२५ ॥ स्यान्मतं यदि विज्ञानं दशाखाखस्ति तत्कथम् । म स्मृतिः प्रतिबुद्धादेः तदाकारा भवेदिति ॥ १९२६ ॥ तदकारणमत्यर्थ पाटवादेरसम्भवात् ।
स्मरणं न प्रवर्त्तेत सद्योजातादिश्चित्तवत् ॥ १९२७ ॥
1
यदि हि सुप्तमूर्च्छायवस्थायां चित्तं नास्तीति निश्चायकं किंचित्प्रमाणं भवेद्भवेद्विरोधः । स्ववेदनानुपलम्भोऽस्ति निश्चायकं प्रमाणमिति चेन्न । स्वसंवेदनानुपलम्भः कुतः सिद्धः । नहि तस्यामवस्थायां संवेदनाभावनिश्चयोऽस्ति । यदि च तासु मूछवस्थासु न वेद्द्यहं चित्तमित्येवं निश्चयः प्रवर्त्तते भवतस्तदा तेनैव तथा प्रवृत्तेन निश्चयेन सच्चित्रता सिद्धा । अथाऽपि स्याद्यदि स्वापाद्यवस्थासु चित्तं स्यात्किमिति