________________
पविकासमेतः। न्यते मरणचित्तमिति । अथापि स्यात्परकीये बौद्धे सिद्धान्ते पठ्यते क्षीणा मे जा. तिरुषितं ब्रह्मचर्य कृतं करणीयं नापरमस्माद्भवं प्रजानामीति, अतः सिद्धमसन्धानमिति । तदेतदयुक्तम्-परकीयस्य सिद्धान्तस्य प्रामाण्येनापरिप्रहालोकायतस्य कथं तथाऽप्रामाण्येन परिगृहीतानिश्चयः, परलोकस्यापि निश्चयप्रसङ्गात् । अथान्यत एव प्रमाणान्तरात्तदवगतं तदेव तर्हि किं न साधनमुक्तम् , किमगमकेन जाड्यसंसूचकेनोपन्यस्तेन, न धन्यस्य तदसाधनं येन तन्नाभिधीयते ॥ १९१६ ॥
सिद्धान्ताश्रयणेनापि कांश्चिद्वौद्धान्प्रति साध्यधर्मसमन्वितो न सिद्धो दृष्टान्त इति दर्शयत्राह-ये चेह सुधिय इत्यादि ।
ये चेह सुधियः केचिदप्रतिष्ठितनिवृतीन् । जिनांस्तद्याननिष्ठत्वं यानयोश्च प्रचक्षते ॥ १९१७॥ तान्प्रत्ययमसिद्धश्च साध्यधर्मसमन्वितः।
दृष्टान्तः प्रतिवादीष्टसिद्धान्ताश्रयणेऽपि ते ॥१९१८ ॥ इहेति । सौगते प्रवचने । सुधियो महायानिकाः । केचिदिति माध्यमिकाः । ते हि बुद्धानामप्रतिष्ठितत्वं निर्वाणमाहुः । संसारनिर्वाणयोरप्रतिष्ठानात् । श्रावकप्रत्येकबुद्धयानयोश्च बुद्धैकयाननिष्ठत्वमाहुः । 'एकमेवेदं ज्ञानं यदुत महायान'मिति वचनात् ॥ १९१७ ॥ १९१८ ॥ एवं दृष्टान्तदोषमुक्त्वाऽनैकान्तिकत्वं साधनदोषमाह-बाधकानभिधानाच्चेति ।
बाधकानभिधानाच सन्दिग्धव्यतिरेकिता।
शक्यमानविजातीयसद्भावाद्यभिचारिता ॥ १९१९ ॥ बाधकानमिधानादिति सन्दिग्धव्यतिरेकित्वस्य हेतुः । शझयमानेत्यादि तु व्यमिचारितायाः । विजातीये सद्भावो विजातीयसद्भावः । कस्य ? । हेतोरिति गम्यते । शयमानश्चासौ विजातीयसद्भावश्चेति विग्रहः । न वा मरणत्वप्रसङ्गो बाधकं प्रमाणम् , परमार्थतः कस्यचिदात्मादिकस्य प्रियमाणस्याभावात् । केवलं तु विसदृशसन्तानोत्पत्तौ विशिष्टनिकायसमाख्यावस्थाविशेषोपरमालोके शाले च तथा व्यवहारः ॥ १९१९॥ बदुक्तं कललादिषु विज्ञानमस्तीत्येतब साहसमित्यत्राह-कललादिग्वित्यादि । . कललादिषु विज्ञानमस्तीत्येतन साहसम्।
असजातेन्द्रियत्वेऽपि ज्ञानं तत्र न किं भवेत् ॥ १९१० ॥