________________
वस्त्रसाद चित्तं स्पष्टं लक्ष्यते । ततश्च देहस्य ताप्येऽभ्युपगम्यमाने मणिकत्वप्रसङ्गः ॥ १९११ ॥ १९१२ ॥
एवं तावत्तादात्म्यलक्षणवृत्तिर्न सिद्धा, अथ तदुत्पत्तिलक्षणा वृत्तिः, सा च तदुत्पत्तिस्तदाश्रयद्वारेण वा स्यान्मनोविज्ञानस्य, यथा चक्षुरादिविज्ञानस्य चक्षुराधाभयेण । तदव्यभिचाराद्वा, यथा धूमस्याम्यन्यभिचारिणः । तदत्र द्विविधाऽपि वृत्तिरसिद्धा । तथाहि-मनोधीनेन्द्रियबुद्धिवत्कायाश्रिता, नियमेन साक्षात्तद्विकाराविधानात् । नापि तदविनाभाविनी, विरूपे धातौ कायमन्तरेणापि भावाभ्युपगमात् । तथाऽप्यभ्युपगम्य सिद्धतां हेतोरनैकान्तिकतामाह-तदाश्रयेण संभूतेस्तेन वाsव्यभिचारत इति ।
तदाश्रयेण संभूतस्तेन वाऽव्यभिचारतः । तत्र वृत्तिर्यदीष्येत तथापि व्यभिचारिता ॥ १९१३ ॥ प्रागवस्थमपि ज्ञानं प्रतिक्षणविनश्वरे। . देहवृत्तं करोत्येव प्रतिसन्धि निरन्तरम् ॥ १९१४ ॥ एकसन्तानभावेन न चेत्तत्र विभिन्नता।
अन्यत्राऽप्येकसन्तानभावान्माभूद्विभिन्नता ॥ १९१५ ॥ तथाहि-चित्तान्तरप्रतिसन्धानस्य चित्तदेहवृत्तेश्च विरोधाभावात् , यथा मरणक्षणात्यागवस्थं जीववस्थाभाविविज्ञानं प्रतिसन्धि करोत्येव मिन्नदेहवृत्तमपि, देहस्य क्षणिकत्वादित्यनैकान्तिको हेतुः । अथैकसन्तानत्वेन देहस्साभेदादमिनदेहवृत्तित्वं कल्प्यते तदाऽन्तराभाविकदेहेऽपि समानम् । तथाहि-पचारतनलक्षणो देहसन्तानस्यावस्थाभेद एवायमामुत्रिको देहः, बालवृद्धावस्थाभेदवत् । द्वितीयेऽपि प्रयोगे ज्ञानत्वादित्यस्य हेतोः साध्यविपक्षे बाधकप्रमाणानुपदर्शनादनकान्तिकत्वं स्पष्टमेवेति नोक्तम् ॥ १९१३ ॥ १९१४ ॥ १९१५ ।। सरागमरणज्ञानमित्यादिकं तृतीयं प्रयोगमधिकृत्याह-वीणावस्येत्यादि ।
क्षीणास्रवस्य विज्ञानमसन्धानं कुतो मतम् । ' परकीयकृतान्तान प्रामाण्यांपरिग्रहात् ॥ १९१६ ॥ न विद्यते चित्तान्तरसन्धानं यस्य तदसन्धानम् । अनेन दृष्टान्तथान्यतराप्रसिबलाध्यधर्मवामाह । ववाहि-चार्वाकस कुतः प्रसिद्धमईतां न चिचान्तरं प्रतिस