________________
पविकासमेतः। स्थादाश्रयो जलादीनां पतनप्रतिषेधतः। . चेतसामगतीनां च किमाधारैः प्रयोजनम् ॥ १९०७॥ तादात्म्येन स्थितिवृत्तिरिह चेत्परिकल्प्यते ।
साऽप्ययुक्ता न हि ज्ञानं युक्तं कायात्मकं तव ॥१९०८॥ प्रक(क्षि?)यादिमूर्तस्य खोपादानदेशपरिहारेणोत्पद्यमानस्योपादानदेशोत्पादहेतुस्वादाधारो गमनप्रतिबन्धाद्व्यवस्थाप्यते । न त्वमूर्तस्य शक्यं तथा व्यवस्थापयितुम् । अथ तादात्म्यलक्षणा वृत्तिरमिप्रेता, साऽपि न सिद्धा। नहि तव बहिरामिनिवेशिनो वक्तुं युक्कं कायात्मकं विज्ञानमिति । मम तु युक्तं विज्ञानमात्रवादिन आलयविज्ञानखभावत्वात्कायस्पेत्यभिप्रायः ॥ १९०७ ॥ १९०८ ॥ कस्मान युक्तमित्याह-तादात्म्ये इत्यादि ।
तादात्म्ये हि यथा कायो विस्पष्टं वेचते परैः। रागद्वेषादिचेतोऽपि तथा किं न प्रवेद्यते ॥ १९०९ ॥ खेनैव वेद्यते चेतो देहस्तु खपरैरपि।
यो चैवं तौ विभियेते कुक्षिमूलनटाविव ॥ १९१०॥ तथाहि देहे गृह्यमाणे परैरागादीनामपि ग्रहणं प्राप्नोत्यव्यतिरेकात् । नच विप्रशस्याऽनेकान्तः, तस्यास्तदानीमप्रत्यक्षत्वात् । नतु चैतन्यस्याप्रत्यक्षत्वं, आत्मनाप्यप्र. हणप्रसङ्गात् । किंच-यावुभयनिश्चितैकनिश्चितौ तौ मित्रौ यथा कुक्षिमूलानुभवनटौ, उभयनिश्चिवैकनिश्चिते च देहचैतन्ये इति स्वभावहेतुः । स्वेनैवेति । आत्मनैव ॥ १९०९ ॥ १९१०॥
अद्वयज्ञानपक्षे तु नायं हेतुः प्रसिद्ध्यति । खस्य खस्यावभासस्य वेदनात्तिमिरादिवत् ॥ १९११ ॥ उदयानन्तरध्वंसि नैरन्तर्येण लक्ष्यते ।
चेतोदेहस्य तादूप्ये क्षणिकरत्वं न किं मतम् ॥ १९१२॥ यद्येवं विज्ञानमात्रवादप्रतिक्षेपोऽनेनैव हेतुना क्रियमाणो दुर्वारः स्यादित्यत आह -नायं हेतुः प्रसिक्ष्यतीति । असिद्धता हेतुदोषो भवतीति । तथाहि 'उभयनिश्चितत्वं विज्ञानवादिनो न सिद्धं खप्रतिभासस्यैव सर्वदा वेदनात् । मिरिकद्वयक्तिचन्द्रदर्शनवत् । अपिल विलक्षणार्यवितिकाले निरन्तरमुत्पादसमनन्तरविनाशि
६८