________________
ARE
तस्वसः ।
निर्हासातिशयौ दृष्टौ बुद्धीनां पूर्वभाविनः ।) (श्रुत शिल्पादिकाभ्यासविशेषहासवृद्धितः) ॥ १९०४ ॥ (मनस्कारे तु) विगुणे ज्ञातव्यार्थान्तराग्रहात् । ज्ञानस्य ज्ञानहेतुत्वं न याति वचनीयताम् ॥। १९०५ ।। वि(भिन्नदेहवृत्तित्वादिति हेतोरसिद्धता ।)
( अमूर्तचेतसो ) वृत्तिः का वा कायेष्वपातिनः १९०६ ॥
1
तथाहि —— खोपादानोद्भवत्वं स्वोपादेयोदयक्षमत्वं च साध्यधर्मः । यस्य च नित्यं कायादेव विज्ञानमुत्पद्यत इति दर्शनं तस्य न क्वचिद्यथोक्तसाध्यधर्मत्वसमन्वितो दृष्टान्तः सिद्ध इति कथमिदानीन्तनचित्तवत्पूर्वविज्ञानवदित्येतयोर्दृष्टान्तयोरुपन्यास इति । नैष दोषः । पूर्वमेव कायस्य हेतुत्वं निषिद्धं "चेतसो यौगपद्यप्रसङ्ग" इत्यनेन । अपेक्षणीयस्य सहकारिकारणस्यातिरेकिणोऽभावात्, नित्यस्यापेक्षानुपपत्तेः । अनित्यपक्षे तु पूर्वोक्तं वर्त्तमानं च दूषणम् । न चाभ्युपगममात्रेण प्रमाणसिद्धस्या - प्यसिद्धत्वं युक्तमतिप्रसङ्गात्, तथाच न किंचित्कस्यचित्साधनं स्यात् । यथाऽऽह'नानिष्टेर्दूषणं सर्वमिति । किंच — यदाऽऽभोगचित्तसमनन्तरं स्मरणमुत्पद्यमानं सुपरिनिश्चितं तदा शुभादिचित्ताद्रागः । तथाहि —सा सुन्दरीति तरुणीति तन्दुरीति सुमुखीति चेत्यादि शुभं चिन्तयतां रागिणां राग उत्पद्यते, तथा ममानेनापकृतमथ करिष्यत्ययमपकरोतीत्यादि चिन्तयतश्च द्वेष उत्पद्यमानो निश्चितः, स कथमपहोतुं शक्यते विशेषतः प्रत्यक्षमात्रवादिना । तथा पूर्वभाविनः श्रुतशिल्पाद्यभ्यासविशेषस्योत्कर्षापकर्षाभ्यामुत्तरबुद्धीनां समुत्कर्षापकर्षो दृष्टौ, तथाऽर्थान्तरव्यासङ्गेन मनस्कारवैगुण्यादर्थान्तराग्रहणं दृष्टमिति ज्ञानस्य ज्ञानहेतुत्वं युक्तियुक्तत्वादवचनीयम् । न तु भूतानां युक्तिविरोधात् । अत एव ज्ञानस्य ज्ञानहेतुत्वप्रतिपादनात् । कार्यकारणतेत्यादौ प्रथमे प्रसङ्गे विभिन्नदेह वृत्तित्वादित्यस्य हेतोरसिद्धता, तथाहि — यदि तावदाधाराधेयलक्षणा वृत्तिरभिप्रेता सा सुतरां चित्तस्यापतनधर्मणः कायेष्वसिद्धा, सत्यपि कार्यकारणभावे चित्तस्यामूर्त्तत्वेनापतनधर्मकत्वात् । न चापतनधर्मकस्याधारो युक्तोऽकिंचित्करत्वात् ॥ १९०० ॥। १९०१ ॥ १९०२ ॥। १९०३ ॥। १९०४ ॥ ।। १९०५ ।। १९०६ ॥
जलादीनां तर्हि किं कुर्वन्नाधारः स्यादित्याह -- स्यादित्यादि ।