________________
पविकासमेवः। खभावश्च प्रथमजन्मचित्तादिकलाप इति स्वभावहेतुः । तत्रादिविज्ञानमिति विज्ञा. नग्रहणमुपलक्षणं । बेदनादयोऽपि गृहीतव्याः ॥ १८९७ ॥ साध्यविपर्यये हेतोर्बाधकं प्रमाणमाह-अन्यहेत्वित्यादि ।
अन्यहेतुप्रतिक्षेपादहेतुत्वे च संस्थिते।
अन्यथा नियतो धर्मो नायं तस्य प्रसज्यते ॥१८९८ ॥ अन्येषां नित्यमनःकालदिगीशादीनां पूर्व प्रतिक्षेपात्खोपादानस्य चानभ्युपगमेsहेतुकत्वं स्यात् , ततश्चायं विज्ञानादित्वलक्षणो नियतो धर्मो न स्यात् । आकस्मिकस्य स्वभावस्य नियामकाभावेन प्रतिनियमायोगात् । अतो निर्हेतुकत्वे नियतविज्ञानादिधर्मानुपपत्तिर्बाधकं प्रमाणं कादाचित्कत्वानुपपत्तिश्च ।। १८९८ ॥ एवमतीतं जन्म प्रसाध्यानागतमपि प्रसाधयितुं प्रमाणयन्नाह-मरणेत्यादि ।
मरणक्षणविज्ञानं खोपादेयोदयक्षमम् ।
रागिणो हीनसङ्गत्वात्पूर्वविज्ञानवत्तथा ॥ १८९९॥ यत्सरागं चित्तं तत्वोपादेयचित्तान्तरोदयसमर्थ सरागत्वात्पूर्वावस्थाचित्तवत्, सरागं च मरणचित्तमिति स्वभावहेतुः । नचासिद्धो हेतुः, यतो यद्भोगादिप्रतिपक्षनैरात्म्यदर्शनवियुक्तं चित्तं तत्सर्व सरागमेव प्रतिपक्षवियुक्तत्वात् , सुरताभोगचित्तवदिति । नाप्यनैकान्तिक एतावन्मानहेतुकत्वाचित्तान्तरोदयस्पेयविकलकारणानुपपत्तिर्बाधकं प्रमाणम् ॥ १८९९ ॥ एतदेव दर्शयति येन रूपेणेत्यादि ।
येन रूपेण विज्ञानं जनयत्परिनिश्चितम् ।
प्राक्पश्चादपि तद्विभ्रदखण्डं किं न कारकम् ॥ १९००॥ तद्विधदिति । स्वरूपम्-खभावमिति यावत् ॥ १९०० ॥ परपक्ष इत्यादिना प्रयोगद्वयेऽपि दृष्टान्तयोः साध्यविकलतां चोदयति ।
परपक्षे च तज्ज्ञानं कायादेवेति संस्थितिः । दृष्टान्तौ तत्कथं सिद्धौ साध्यधर्मसमन्वितौ ॥ १९०१॥ ननु कायस्य हेतुत्वं प्रागेव विनिवारितम् । चेतसो युगपत्प्रासेरभावाचातिरेकिणः ॥ १९०२॥ आभोगशुभचित्तादिभाविखेन विनिधितम् । स्मृतिरागादिविज्ञानं तनिषेढुं न पार्यते ॥ १९०३ ॥