________________
वत्स्वनः । उपादानतदादेयधोऽयं यद्व्यवस्थितः। अन्वयव्यतिरेकाभ्यां निश्चितच खसन्ततौ ॥ १८९५ ॥ खोपादानबलोद्भूते सहकारित्वकल्पने।
सन्तानान्तरचित्तस्य न काचिद्व्याहतिर्भवेत् ॥ १८९६ ॥ तत्-सन्तानान्तरचित्तं मात्रादिसंबन्धि, उपादानकारणं वा स्यात्सहकारिकारणं वा, न तावदुपादानकारणं, पुत्रज्ञानसन्तानेऽपि मातापितृश्रुतादिसंस्कारादिविशेषानुत्प(?)चिप्रसङ्गात् , यथा पित्रोरेव स्वोत्तरबुद्धिषु । यस्मादुत्तरेषु क्षणेषु यत्पूर्वक्षणसंस्कारानुवर्तनम् । एवमुपादानोपादेयधर्मो व्यवस्थितः । वसन्तानेऽन्वयव्यतिरेकाभ्यां निश्चितत्वात् । अथ मतम्-यथैकस्मात्प्रदीपाहीपान्तरोत्पत्तौ न पूर्वदीपसंस्कारेण स्थौल्यादिलक्षणेन विशिष्टस्योत्तरस्य दीपस्य संभवः, किं तर्हि ?, निःसंस्कारस्य प्रदीपमात्रस्योत्पत्तिः, अन्यतस्तु तस्य दीपान्तरस्य खेत्व(न्ध ?)नादेः सकाशाद्विशेषः, तद्वत्सु तद्बुद्धेरिति । तन्न । यस्मात्प्रदीपादिसंस्कारः स्वाश्रयेऽपि तावत्सन्तानमवबभाति । अस्थिरत्वात्तस्य । तथाहीन्धनाय(प?)चये तस्यैव दीपस्य त(अस)त्त्वं दृश्यते । नत्वेवमस्थिरः श्रुतादिसंस्कारः, तस्य चिरकालमवस्थानात् । अतो न दीपादिवनिःसंस्कारस्य बुद्धिमात्रस्य सम्भवो युक्तः । किंच-प्रदीपादौ बहुतराल्पपरमाणुसंचयोत्पादानुकल्पिती विशेषाविशेषौ, न त्वेकस्य वस्तुलक्षणस्य तत्र विशेषोऽस्त्यविशेषो वा । इह त्वेकस्मिन्नेव वस्तुलक्षणे श्रुताविसंस्कारेण विशेषो मातृबुद्धिवतिनि, अविशेषस्तु सुतबुद्धिवर्जिनीति किं केन शास्यम् । किंच-उपादानकारणबेऽयं प्रसङ्ग उच्यते, न च दीपान्तरं दीपान्तरस्योपादानकारणं, मिन्नसन्तानत्वादिति यत्किंचिदेतत् । अपिच येषां संखेदजातीनां मातैव नास्ति तेषां कथमन्यविज्ञानजा बुद्धिरित्यलं प्रसङ्गेन । अथ सहकारिकारणमिति पक्षस्तदा सिद्धसाध्यता ॥१८९३।। ॥ १८९४ ॥ १८९५ ॥ १८९६ ॥ तस्मादित्यनादित्वसाधने प्रमाणयति ।
तस्मात्तत्रादिविज्ञानं खोपादानबलोद्भवम् ।।
विज्ञानवादिहेतुभ्य इदानीन्तनचित्तवत् ॥ १८९७ ॥ प्रयोगः-यविज्ञानवेदनासंज्ञासंस्कारस्कन्धचतुष्टयखभावं वस्तु तत्वोपादानबजोत विज्ञानादित्वात) बया नौवनाचवल्यासु तदेव स्कन्धचतुष्टयम् , विज्ञानादि