________________
पखिकासमेतः। यदि न्यायानुरागादः खपक्षेऽप्यनपेक्षता।
भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम् ॥१८८८॥ अथ युक्त्युपेतत्वात्क्षणिकत्वमभ्युपगम्यते तदा विज्ञप्तिमात्रतानयतर्हि पर उत्कष्टोऽभ्युपगम्यता, तत्रापि युक्त्युपेतत्वस्याभ्युपगमकारणस्य तुल्यत्वात् ॥ १८८८ ॥ कथमित्याह-नावयव्यात्मतेत्यादि ।
नावयव्यात्मता तेषां नापि युक्ताऽणुरूपता।
अयोगात्परमाणूनामित्येतदभिधास्यते ॥ १८८९ ॥ तेषामिति । महाभूतानाम् । अभिधास्यत इति । समनन्तरमेव बहिरर्थपरीक्षायाम् ॥ १८८९ ॥
यदि न सन्त्येव भूतानि कथं तर्हि प्रतिभासन्त इत्याह-अबहिस्तत्त्वरूपाणीत्यादिना।
अबहिस्तत्त्वरूपाणि वासनापरिपाकतः।
विज्ञाने प्रतिभासन्ते खमादाविव नान्यतः ॥ १८९० ॥ अन्यत इति । विज्ञानादन्यत्र बाह्य इति यावत् ॥ १८९०॥ कथं तर्हि पृथिवीत्यादिव्यवहारो लोकशास्रयोरित्याह-विज्ञानस्यैवेत्यादि ।
विज्ञानस्यैव निर्भासं समाश्रित्य प्रकल्प्यते ।
खममायोपमं नेदं महाभूतचतुष्टयम् ॥ १८९१ ॥ यदि भूतानि न सन्ति कस्तर्हि ज्ञानहेतुरित्याह-तदन्यस्येत्यादि ।
तदन्यस्य तदाभावे हेतुत्वं नोपपद्यते।
प्राग्भूतं भूतनिर्भासं ज्ञानं तु जनयेत्परम् ॥ १८९२॥ तदन्यस्येति । तस्माद्विज्ञानादन्यस्य भूतचतुष्टयस्य ॥ १८९२ ॥
एवं भूतमात्रोद्भवं तावदाचं चित्वं न भवतीति प्रतिपादितम् , इदानीं च जन्यविज्ञानमात्रजमित्येतत्पक्षनिराकरणायाह-सन्तानान्तरेत्यादि ।
सन्तानान्तरविज्ञानं तस्य कारणमिष्यते। यदि तकिमुपादानं सहकार्यथवाऽस्य किम् ॥ १८९३ ॥ उपादानमभीष्टं चेत्तनयज्ञानसन्तती। पित्रोः श्रुतादिसंस्कारविशेषानुगमो भवेत् ॥ १८९४॥